सर्वपापविशुद्धात्मा पुष्करस्य फलं लभेत्
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये नीलगंगामाहात्म्यवर्णनंनाम चतुःपंचाशत्तमोऽध्यायः
महाकालवने रम्ये केन वा प्रेषितः पुरा
तदा सर्वसुरैरेवमगस्तिर्मुनिसत्तमः
आराधितो महाभागो धरणीत्राणकारणात्
एकाग्रमानसो भूत्वा भवानीं विंध्यवासिनीम्
कंसविद्रावणकरीमसुराणां क्षयंकरीम्
यशोदागर्भसंभूतां चाणूरबलमर्दिनीम्
जननीं देवसेनस्य कवीनां वाचमीश्वरीम्
सहस्राक्षीं तथेंद्रस्य ऋषेश्चारुंधतीं पराम्
अदितिं सर्वमातॄणां पार्वतीं सर्वयोषिताम्
शारदीमृतुवेलायां वृंदावनचरीं वराम् 5.1.55.
लक्ष्मीं च श्रीमतामिष्टां यक्षिणीं धनदार्चिताम्
वेदिकां यज्ञशालानां हविराहवनीं शुभाम् । दक्षिणां सर्वदीक्षाणां सर्वकामफलप्रदाम्
एवं स्तुता तदा देवी प्रत्यक्षा विंध्यवासिनी
वियतां भो द्विजश्रेष्ठ यदस्मत्तोऽभिवांछितम्
रेवेयं वर्द्धिता लोके सर्वलोकभयप्रदा
तयेदं प्लावितं विश्वं तस्यास्तु ग्रहणं कुरु
आगात्साध्वी तदा व्यास महाकालवनं शुभम्
वारयिष्ये परां देवीं वर्धमानां द्रुतं ह्यृषे
यावत्त्रिकूटे द्वारे त्वं स्थास्य सि ऋषिसत्तम
कुशस्थली महापुण्या पवित्रा पापहारिणी तत्रैवाहं चिरं कालं मातृभिर्निवसामि वै ।। 5.1.55.
तत्रापि त्वं सदा सिद्धक्षेत्राधिपत्यमाप्नुयाः
यत्र पुण्यवतां वासो देव्यस्तिष्ठंति कोटिशः
यजंति चैव मां भक्त्या धूपदीपाग्नितर्पणैः
न तेषां दुर्लभं किंचित्त्रिषु लोकेषु विद्यते
प्राप्यंते विविधा भोगा देवानामपि दुर्लभाः
न शस्त्रानलतोयौघात्कदा चित्संभविष्यति
सर्वपापविशुद्धात्मा मृतः शिवपुरं व्रजेत् ।। एवं व्यास पुरीं प्राप्य रम्यां चोज्जयिनीं शुभाम्
समाश्रिता तदा देवी सततं विंध्यवासिनी