तस्य सिद्धिः करगता भविष्यति न संशयः
दर्शे पितॄन्समुद्दिश्य श्राद्धं कुर्यान्महालयम्
समगोत्रेषु ये जाताः पूर्वजा निरयवासिनः
स्नात्वा तिलांजलिं दद्यात्पितॄ नुद्दिश्य तत्परः
भोजयेद्ब्राह्मणान्सप्त श्राद्धं कृत्वा तु पायसैः
तीर्थं पुण्यतरं व्यास शृणु चान्यद्वदामि ते
सर्वपापहरं पुण्यं सर्वकामवरप्रदम् 5.1.54.
दुग्धं सर्वं हविर्भाव्यं सर्वेषां जीवनप्रदम्
कुंडे स्नात्वा पयः पीत्वा दत्त्वा गां च पयस्विनीम्
जायते सर्वकालेषु मृतः स्वर्गपुरं व्रजेत्
सर्वपापविशुद्धात्मा पुष्करस्य फलं लभेत्
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये नीलगंगामाहात्म्यवर्णनंनाम चतुःपंचाशत्तमोऽध्यायः
महाकालवने रम्ये केन वा प्रेषितः पुरा
तदा सर्वसुरैरेवमगस्तिर्मुनिसत्तमः
आराधितो महाभागो धरणीत्राणकारणात्
एकाग्रमानसो भूत्वा भवानीं विंध्यवासिनीम्
कंसविद्रावणकरीमसुराणां क्षयंकरीम्
यशोदागर्भसंभूतां चाणूरबलमर्दिनीम्
जननीं देवसेनस्य कवीनां वाचमीश्वरीम्
सहस्राक्षीं तथेंद्रस्य ऋषेश्चारुंधतीं पराम्
अदितिं सर्वमातॄणां पार्वतीं सर्वयोषिताम्
शारदीमृतुवेलायां वृंदावनचरीं वराम् 5.1.55.
लक्ष्मीं च श्रीमतामिष्टां यक्षिणीं धनदार्चिताम्
वेदिकां यज्ञशालानां हविराहवनीं शुभाम् । दक्षिणां सर्वदीक्षाणां सर्वकामफलप्रदाम्
एवं स्तुता तदा देवी प्रत्यक्षा विंध्यवासिनी
वियतां भो द्विजश्रेष्ठ यदस्मत्तोऽभिवांछितम्
रेवेयं वर्द्धिता लोके सर्वलोकभयप्रदा
तयेदं प्लावितं विश्वं तस्यास्तु ग्रहणं कुरु
आगात्साध्वी तदा व्यास महाकालवनं शुभम्
वारयिष्ये परां देवीं वर्धमानां द्रुतं ह्यृषे