तेन पुण्यप्रभावेन सर्वपापं क्षयं गतम्
हित्वा पैशाचकं देहं ज्योतिस्तल्लिंगमाविशत्
पिशाचमोचनेशेति देवः ख्यातिं ततो गतः
यावन्नायाति शिप्रायास्तीर्थे पैशाचमो चने
पिशाचमोचनं देवं पूजयित्वा यथाविधि
पिशाचमोचने व्यास महादानानि कारयेत्
पिशाचमोचनकथां पवित्रां पापहारिणीम् 5.1.53.
नीलगंगा कदा ब्रह्मञ्छिप्राकुंडे समागता
नीलगंगां नरः स्नात्वा संगमेश्वरमर्चयेत्
दुःसंगसंभवा दोषा न भवंति कदाचन
गता पुनंती त्रील्लोकान्नीलवासा शुचार्दिता
दुष्टाचारापराधेन येनेमां प्रापिता दशाम्
तत्सर्वं तिष्ठति मयि सर्वेषामपि देहिनाम्
नीलभासा विवर्णा च सर्वधर्मबहिर्मुखा
मयि त्यक्त्वा पुनंतीह जंतवः सर्वशोऽमलाः
अस्माकं च महत्कष्टं जातं धातः परं मलम्
न लोके च स्थितिर्मेद्य पापिष्ठायाः सनातनी 5.1.54.
किं करोमि क्व गच्छामि येन शांतिर्भवेन्मम
येनाहं पापलिप्तांगी पुनः प्रकृतिमाप्नुयाम्
महाकालवने रम्ये पुरी ह्येषा ऽमरावती
तत्र शिप्रा सरिच्छ्रेष्ठा वर्तते भुवि पावनी
तत्र गच्छ महाभागे सद्यश्चात्म विशुद्धये
तमभिज्ञाय संप्राप्ता महाकालवनं शुभम्
विंध्यस्य चोत्तरे भागे अंजन्याश्रममुत्तमम्
पतिव्रताभिः सर्वाभिः पतिभिर्ब्रह्मचारिभिः
सरसीफुल्लकल्हारैर्मत्तालिकुलनादितैः
मनोह्रादकरं पुण्यं पवित्रं पापनाशनम् 5.1.54.
शुक्लवासाऽभवत्सद्यो नष्टपापमला ऽशुभा
तत्रैव चाश्रमं चक्रे मनःसंहर्षकारणम्
नीलगंगेति वै व्यास तीर्थं किल्विषनाशनम्