विश्वासघातको मानी चोरसंगरतः खलः
बहवो निहता मार्गे पापाचारेण जंतवः
तत्रैको ब्राह्मणो दांतो वेदवेदांगपारगः
श्वशुरगृहे स्थिता भार्या तामादाय यशस्विनीम्
तस्य स्त्री च वरारोहा रूपलावण्यशालिनी
हते भर्तरि दुःखार्ता पतिविरहकातरा
आरुरोह चितां दीप्तां पतिना हृष्टमानसा 5.1.53.
गृहीत्वा चलितो मार्गे गृहीतो राजकिंकरैः नीतोऽसौ राजभवनं निवेदितो राजसंनिधौ
पातितो वै गले बद्ध्वा रज्जुना वृक्षकोटरे
तेन कर्मविपाकेन रौरवं नरकं गतः
ततोऽन्यं नरकं प्राप्तो यमशासनकारकैः
मुद्गरैस्ताड्यमानो हि शृंखलाभिश्च किंकरैः
एवं बहुविधान्कुण्डान्भुक्त्वा पापी नवान्नवान्
महाकायो महारावो महोदरः सूचीमुखः
ततः कष्टतरां प्राप्य पैशाचीं तनुमाश्रितः
विण्मूत्रदूषितोच्छिष्टपूतिपर्युष्टभोजनः
भग्नवापीतडागे च शुष्कवृक्षे निरूदके 5.1.53.
निवासो रोचते तस्य सर्वदा सर्वसंधिषु
यत्र माहेश्वरं लिंगं सुन्दरं कुंडमुत्तमम्
घातयित्वा च तं पापं जलार्थी कुंडमाविशत्
तेन पुण्यप्रभावेन सर्वपापं क्षयं गतम्
हित्वा पैशाचकं देहं ज्योतिस्तल्लिंगमाविशत्
पिशाचमोचनेशेति देवः ख्यातिं ततो गतः
यावन्नायाति शिप्रायास्तीर्थे पैशाचमो चने
पिशाचमोचनं देवं पूजयित्वा यथाविधि
पिशाचमोचने व्यास महादानानि कारयेत्
पिशाचमोचनकथां पवित्रां पापहारिणीम् 5.1.53.
नीलगंगा कदा ब्रह्मञ्छिप्राकुंडे समागता
नीलगंगां नरः स्नात्वा संगमेश्वरमर्चयेत्
दुःसंगसंभवा दोषा न भवंति कदाचन