गंधर्वाप्सरसो यक्षाः सिद्धाः किंपुरुषास्तथा
ब्रह्मा रुद्रश्च कालश्च लोकपाला महौजसः
तिष्ठंति बहुयुग व्यास यावत्कल्पः समाप्यते
दिव्यपादपसंयुक्तं पारिजातगुणान्वितम्
क्वचिन्मयूरा नृत्यंति क्वचित्कूजंति कोकिलाः
सुन्दरं सुन्दराकारं सुन्दरं तेन चोच्यते
यत्र संनिहितो विष्णुः शिवः शक्त्या युतो वशी 5.1.53.
पक्षार्धं पक्षमेकं च सुन्दरकुण्डे नरो वसेत्
पक्षिकीटपतंगाश्च मृता यांति शिवालयम्
ये ददति तिलान्धेनुं गजवा जिरथावनीः
शय्यादानविमानानि दानानि विविधानि च
भूयः शृणु परं व्यास सुन्दरकुण्डफलं स्मृतम्
पिशाचो मोक्षमापन्नः शिव रूपधरो गतः
मुच्यते सर्वपापेभ्यो यद्यपि ब्रह्महा भवेत्
कोऽसौ पिशाच इति ख्यातः किं तेन दुष्कृतं कृतम्
कथं तीर्थप्रसंगोऽस्य जातो वै द्विज सत्तम
यस्य श्रवणमात्रेण सर्वपापक्षयो भवेत् ।।5.1.53.
ब्राह्मणो देवलो नाम दाक्षिणात्यो द्विजाधमः
गुरुद्रोही कितवो धूर्तो गुरुहा गुरुतल्पगः
अभक्ष्यभक्षकश्चैव वेदशास्त्रविवर्जितः
विश्वासघातको मानी चोरसंगरतः खलः
बहवो निहता मार्गे पापाचारेण जंतवः
तत्रैको ब्राह्मणो दांतो वेदवेदांगपारगः
श्वशुरगृहे स्थिता भार्या तामादाय यशस्विनीम्
तस्य स्त्री च वरारोहा रूपलावण्यशालिनी
हते भर्तरि दुःखार्ता पतिविरहकातरा
आरुरोह चितां दीप्तां पतिना हृष्टमानसा 5.1.53.
गृहीत्वा चलितो मार्गे गृहीतो राजकिंकरैः नीतोऽसौ राजभवनं निवेदितो राजसंनिधौ
पातितो वै गले बद्ध्वा रज्जुना वृक्षकोटरे
तेन कर्मविपाकेन रौरवं नरकं गतः