गुह्याद्गुह्यतरं पुण्यं महाकालवनं शुभम्
मम देहोद्भवा शिप्रा यत्र लीना पयस्विनी
पुष्करं च गयातीर्थं पुरुषोत्तमसरः शुभम्
इति श्रुत्वा परं वाक्यं देवदेवजगद्गुरोः
महाकालवने रम्ये यत्र शिप्रा सरिद्वरा
तेन पुण्यप्रभावेन स्वकाँल्लोकान्गताः सुराः 5.1.52.
जातं सरो वराहस्य विष्णोरतुलतेजसः
अत्र स्नात्वा पयः पीत्वा श्राद्धं कृत्वा यथोचितम्
अवंत्यां सुन्दरे तीर्थे तिष्ठंति सर्वदा भुवि
सर्वपापप्रशमनं वांछितार्थफलप्रदम्
यस्य श्रवणमात्रेण ब्रह्महत्या व्यपोहति
पुरा कल्पक्षये व्यास नष्टकल्पा च मेदिनी
तदात्र पतितं व्यास वैकुण्ठशिखरोत्तमम्
तत्क्षणात्पतिते शृंगे कुण्डं जातं सुनिश्चितम्
जांबूनदकरारोहं हेमपद्मविराजितम्
हंसकारंडवाकीर्णं चक्रवाकोपशोभितम्
कल्पक्षये न क्षीयंते यानि तत्त्वानि सर्वशः 5.1.53.
वेदशास्त्रपुराणानि गाथागीतिक्षराक्षराः
कलाः काष्ठा मुहूर्ताश्च लवत्रुटिपलं घटिः
संवत्सरयुगाश्चैव कुण्डे तिष्ठंति मूर्तितः
गंधर्वाप्सरसो यक्षाः सिद्धाः किंपुरुषास्तथा
ब्रह्मा रुद्रश्च कालश्च लोकपाला महौजसः
तिष्ठंति बहुयुग व्यास यावत्कल्पः समाप्यते
दिव्यपादपसंयुक्तं पारिजातगुणान्वितम्
क्वचिन्मयूरा नृत्यंति क्वचित्कूजंति कोकिलाः
सुन्दरं सुन्दराकारं सुन्दरं तेन चोच्यते
यत्र संनिहितो विष्णुः शिवः शक्त्या युतो वशी 5.1.53.
पक्षार्धं पक्षमेकं च सुन्दरकुण्डे नरो वसेत्
पक्षिकीटपतंगाश्च मृता यांति शिवालयम्
ये ददति तिलान्धेनुं गजवा जिरथावनीः