स्वधाकारो वषट्कारः स्वाहाकारो न दृश्यते
नैव तीर्थं प्रकाशेत पुण्यान्यायतनानि च
उच्छिन्ना हि तदा जातास्तस्मिन्राज्ञि दुरात्मनि
पाखंडिनोऽपरा क्रांताः सर्वे धर्मबहिर्मुखाः
बहुम्लेच्छा बहुक्लेशा बह्वाबाधावनी कृता
तमीभूतं जगत्सर्वं दृश्यते वसुधातले 5.1.52.
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत
इति ज्ञात्वा महाविष्णुर्वाराहं वपुरात्मवान्
यूपदंष्ट्रो हविर्गंधो बीजौषधितनूरुहः
अंतरास्यरुचादार्ढो यज्ञकायः सुदक्षिणः
हौत्रश्वासपरो दक्षसदस्यावयवः स्मृतः
वेदिपल्वलसंस्तारो ब्रह्माध्वर्युर्वनाकरः
आद्यः पुरुष ईशानः पुरुहूतः पुरुष्टुतः
संग्रामान्सुबहून्कृत्वा बहुकष्टेन विष्णुना
उद्धृता च वराहेण दंष्ट्रया चंद्ररेखया
ववुः पुण्यास्तथा वाताः सुप्रभोऽभूद्दिवाकरः 5.1.52.
सरितो मार्गवाहिन्यः सागराः प्रकृतिं गतः
वाराहमूर्तिर्भगवान्सर्वकामफलप्रदः
तस्यापि हृदयाज्जाता नदी ह्येषा सनातनी
बहुयोजनविस्तारा बहुला कामचारिणी
सरला तरलच्छाया यक्षगंधर्वसेविता
अप्सरोभिर्नृत्यमाना स्तूयमाना महर्षिभिः
तुंगस्तनभराक्रांतयोषिद्भिः क्रीडितान्तरा
सर्वदा सर्वकाले च सिद्धैः सिद्धिप्रदा नृणाम्
महाकालवने रम्ये रम्या पद्मावती पुरी
यत्र स्नात्वा नरा यांति शिवलोकं सनातनम् 5.1.52.
वाराहेण कृतं सर्वं दुष्टदैत्यनिबर्हणम्
कृतप्रांजलयः सर्वे देवा इंद्रपुरोगमाः
देवदेव जगन्नाथ पुण्यश्रवणकीर्तन
येन पुण्यप्रभावेन पुनः स्वर्गो ह्यवाप्स्यते