भवेतां नियतं तस्य संतुष्टौ रतिमन्मथौ
रतिकुंडे पुरः स्नात्वा पश्चात्कंदर्प्पकुंडके
रतिकंदर्प्पयोः पूजा विधातव्या विशेषतः
सर्वान्कामानवाप्नोति नात्र कार्या विचारणा ।। 2.8.8.
चंदनागुरुकर्पूरकस्तूरीकुंकुमादिभिः
एवं कृते न संदेहो रतिकंदर्पतुष्टये
कुसुमायुधकुंडात्तु प्रतीच्यां दिशि संस्थितम्
तत्र तीर्थे नरः स्नात्वा दृष्ट्वा मन्त्रेश्वरं विभुम्
पुरा रामो देवकार्यं विधायामलकर्मकृत्
स्वर्गं प्रति प्रयाणाय यत्र स्नातौ जितेंद्रियः
तदुत्तरे सरो रम्यं कुमुदोत्पलमंडितम्
मंत्रेश्वरस्य महिमा नहि केनापि शक्यते मंत्रेश्वरसमं लिंगं न भूतं न भविष्यति
सुगंधिपुष्पधूपादिकुसुमाद्यनुलेपनैः 2.8.8.
एवं कृते न संदेहो मुक्तिस्तस्य करे स्थिता
तां संपूज्य नरो विद्वान्सर्वपापैः प्रमुच्यते कर्त्तव्यं सुप्रयत्नेन नृभिः सर्वार्थसिद्धये
विस्फोटकादिकभये नरैश्च समुपस्थिते
तदुत्तरे तु तत्रैव देवी वन्दीति विश्रुता
राज्ञा क्रुद्धेन ये बद्धाः शृंखलानिगडादिभिः
यात्रा तस्याः प्रयत्नेन कर्तव्या यत्नतो नरैः
गंधैः पुष्पैस्तथा धूपैर्दीपैरपि च सुव्रत
बन्दीप्रीत्यै मुनिश्रेष्ठ देयं ब्राह्मणभोजनम्
तदुत्तरस्मिंस्तत्रैव चुडकी भुवि कीर्तिता
सुसंदिग्धेषु कार्येषु भये च समुपस्थिते 2.8.8.
अग्रे तस्याः सदा कार्या नृभिरंगुष्ठतो ध्वनिः
सर्वाभीष्टप्रदं नॄणां दीपदानं प्रशस्यते
ततः पूर्वदिशाभागे वर्त्तते तीर्थमुत्तमम्
यत्र स्नानेन दानेन पूजया च द्विजन्मनाम्
भाद्रे कृष्णचतुर्दश्यां यात्रा सांवत्सरी स्मृता
महारत्न इति ख्यातं तस्मात्तीर्थमनुत्तमम्
नारीभिरपि विप्रर्षे कर्त्तव्यो जागरोत्सवः तत्र स्नानं प्रयत्नेन कर्त्तव्यं श्रद्धया नरैः