तथापि तत्समुत्पत्तिं विस्तराद्गदतो मम शृणु व्यास महापुण्यां कथां पौराणिकीं शुभाम्
पुरा महासुरो जातो हिरण्याक्षो महाबलः
स चेमां सकलां पृथ्वीं वशीकृत्वा चकार ह
जित्वा च सकलाँल्लोकान्सुरानिंद्रपुरोगमान्
स सर्वान्सर्वलोकेभ्यः स्वयमेवाधितिष्ठति
विचरंति यथा मर्त्या भ्रष्टराज्याः पराजिताः
तत्र गत्वा नमस्कृत्य दैत्यकृत्यं न्यवेदयन्
येन देवगणाः सर्वे नष्टप्रायाश्च तत्क्षणात् 5.1.52.
यज्ञभागांश्च वै सर्वानुपाश्नाति पृथक्पृथक्
इति विक्लवितं तेषां देवानां स पितामहः
ब्रह्मोवाच शृणुध्वं भोः सुरश्रेष्ठा यूयं सर्वे समाहिताः
द्वावेव सचिवौ दांतौ विष्णुवेषधरावुभौ
एकदा वै मुनिश्रेष्ठ ब्रह्मणो मानसात्मजाः
सनकादयो महाभागा भगवद्दर्शनलालसाः
मुमुहुश्च तदा व्यास कुमारा भृशदुःखिताः
ददर्श सहसा विष्णुः कुमारान्भुवि दुःखितान्
मूर्ध्नि चाघ्राय बाहुभ्यां परिष्वज्य ह्युवाच ह 5.1.52.
सर्वं तत्कारणं बाला ब्रूत नो धर्मवित्तमाः
येन प्राप्ता वयं ब्रह्मन्दशामेतां शृणुष्व ह
आयाता भ्रातरो ह्येते चत्वारो लोकपर्यटाः
निवारिताश्च सहसा ताभ्यां वै द्वारपालनात्
भगवानुवाच अतः प्रभृति स्थानेस्मिन्स्थितिर्नास्ति च शाश्वती
सद्यः प्राप्तौ तदा व्यास आसुरीं योनिमेव तौ
जन्मांतरसहस्रेण तपोदानसमाधिभिः
दुष्टभावेन सद्यो वै जन्मभिर्जायते त्रिभिः
जन्मजन्मांतरे जातौ तामसीं योनिमुद्धतौ
तथैव कुंभकर्णाख्यो रावणो लोकरावणः 5.1.52.
योऽसौ महाबली दैत्यो हिरण्याक्ष इति स्मृतः
जित्वा च सकलान्देवान्स्वयमेवाधितिष्ठति
स्वर्गान्निराकृताः सर्वे भ्रष्टराज्याः पराजिताः