शिप्रायां स्नानजं पुण्यं वक्तुं शक्तो न कीदृशम्
यस्मात्स्नानं कृतं सर्वैः शिप्रायां पन्नगोत्तमैः 5.1.51.
नीत्वा शिप्रोदकं पुण्यं कुण्डेषु परिषिञ्चत
संपूर्णानि भविष्यंति स्थिराणि पन्नगोत्तमाः
गतास्ते वै स्वकं लोकं नमस्कृत्वा महेश्वरम्
सर्वलोकेषु विख्याता व्यास शिप्राऽमृतोद्भवा
न तेषां दुष्कृतं किंचिन्नापदो न च दुर्गतिः
न च मित्राणि दुष्यंति न रोगो न दरिद्रता पठनाच्छ्रवणाद्वापि गोसहस्रफलं लभेत्
यस्य श्रवणमात्रेण हयमेधफलं भवेत्
शिप्रा च सर्वतः पुण्या पवित्रा पापहारिणी
तथापि तत्समुत्पत्तिं विस्तराद्गदतो मम शृणु व्यास महापुण्यां कथां पौराणिकीं शुभाम्
पुरा महासुरो जातो हिरण्याक्षो महाबलः
स चेमां सकलां पृथ्वीं वशीकृत्वा चकार ह
जित्वा च सकलाँल्लोकान्सुरानिंद्रपुरोगमान्
स सर्वान्सर्वलोकेभ्यः स्वयमेवाधितिष्ठति
विचरंति यथा मर्त्या भ्रष्टराज्याः पराजिताः
तत्र गत्वा नमस्कृत्य दैत्यकृत्यं न्यवेदयन्
येन देवगणाः सर्वे नष्टप्रायाश्च तत्क्षणात् 5.1.52.
यज्ञभागांश्च वै सर्वानुपाश्नाति पृथक्पृथक्
इति विक्लवितं तेषां देवानां स पितामहः
ब्रह्मोवाच शृणुध्वं भोः सुरश्रेष्ठा यूयं सर्वे समाहिताः
द्वावेव सचिवौ दांतौ विष्णुवेषधरावुभौ
एकदा वै मुनिश्रेष्ठ ब्रह्मणो मानसात्मजाः
सनकादयो महाभागा भगवद्दर्शनलालसाः
मुमुहुश्च तदा व्यास कुमारा भृशदुःखिताः
ददर्श सहसा विष्णुः कुमारान्भुवि दुःखितान्
मूर्ध्नि चाघ्राय बाहुभ्यां परिष्वज्य ह्युवाच ह 5.1.52.
सर्वं तत्कारणं बाला ब्रूत नो धर्मवित्तमाः
येन प्राप्ता वयं ब्रह्मन्दशामेतां शृणुष्व ह
आयाता भ्रातरो ह्येते चत्वारो लोकपर्यटाः