भविष्यति ततः सद्यः सुधा लोके पुरेव वः
वाणीं व्यास तदा दिव्यां सहसा लोकसाक्षिणीम् 5.1.51.
स्त्रीबालवृद्धसहिता महाकालवनं ययुः
सर्वत्र कुसुमाकीर्णां तरुच्छायाभिराश्रिताम्
मणिसोपानरचितां पद्मखंडैश्च मंडिताम्
ऋषयश्च महाभागा भृग्वंगिरसमु ख्यकाः
वसवश्च तथादित्या ह्यश्विनौ मरुतस्तथा
उपासते च शिप्रां वै संध्यावेलां समाहिताः
पतिव्रता महाभागास्तत्रैव पतिभिः सह
राजर्षयः समासीना निर्वाणपदवीं गताः
नानादेशोद्भवा लोका यात्रिणः समुपागताः
कुर्वते तत्र धर्माणि महादानानि सर्वशः 5.1.51.
नदीं सुधामयीं सर्वां नागाः परमहर्षिताः
वेदोक्तविधिना सर्वे भक्त्या पन्नगसत्तमाः
अम्लानपंकजां मालां नानापुष्पाक्षतै स्तथा
दीपदानादिनैवेद्यैस्तांबूलमथ दक्षिणाः स्तुतिमारेभिरे कर्तुं सुधाकामास्तदोरगाः
चंद्रमौले नमस्तेऽस्तु कपर्दिन्परमात्मने
त्र्यम्बकाय नमस्तेऽस्तु जटामुकुटधारिणे
कृत्तिवास नमस्तेऽस्तु गिरीशाय नमोनमः
मृगव्याध नमस्तेऽस्तु घस्मराय नमोनमः
सर्वसाक्षिन्नमस्तेऽस्तु सर्वभूताशयाकृते
दिव्यहास नमस्तेऽस्तु नमोऽमृतस्रवाय च ।। 5.1.51.
काम्यकाम नमस्तेस्तु सर्वकामवरप्रद
नमो मृडाय दांताय शांतरूपाय वै नमः
एवं प्रसादितो नागैर्भगवान्वृषभध्वजः
नागलोके पुरा नित्यं भिक्षार्थं चागतोस्म्यहम्
गृहेगृहे भोगवत्यां व्यचरत्क्षुधितो भृशम्
अप्राप्तभिक्षो भिक्षार्थी पुनरागां ततो गृहम्
किंचित्पुण्यप्रसंगेन महाकालवनोत्तमे
आबालवृद्धैः सस्त्रीभि दृष्टा शिप्रा सरिद्वरा