दमनस्य च निर्मुक्तिः शिप्रामाहात्म्यमुत्तमम्
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये शिप्रामाहात्म्ये पञ्चाशत्तमो ऽध्यायः
यथाऽमृतभवा ख्याता पाताले नागसंमते
एकदा रुद्रो भिक्षार्थं नागलोके बुभुक्षितः
भिक्षां देहि वचो दीनं वाचयित्वा गृहेगृहे
तदा क्रोधाभिरक्ताक्षः शूलपाणिः क्षुधार्दितः
एकविंशतिकुण्डानि पीयूषस्य द्विजोत्तम
तत्र गत्वा स भगवाञ्छंभुः सर्वात्मसंभवः
रिक्तानि पीयूषकुण्डानि कृत्वा तत्रैव सोत्थितः
कस्येदं कर्म किं जातं सुधा यस्मादितो गता
महदतिक्रमणे शंकाः पुरात्ते निर्ययुर्बहिः
येनास्माकं कोपितेन हृतं चामृतमुत्तमम् 5.1.51.
इत्युक्त्वा पन्नगाः सर्वे सस्त्रीबालपरिग्रहाः
तेषामनुग्रहार्थाय वागुवाचाशरीरिणी
भिक्षार्थमागतः शम्भुः क्षुधार्तश्च गृहेगृहे
दत्ता न भिक्षा केनापि भोगवत्यां पिनाकिनः
तेन नष्टा सुधा सर्वा कुंडांते पन्नगोत्तमाः
तत्रैका वै सरिच्छ्रेष्ठा शिप्रानामेति विश्रुता
यस्या दर्शनमात्रेण सर्वपापक्षयो भवेत्
भजनं देवदेवस्य ततः पूजां करिष्यथ
भविष्यति ततः सद्यः सुधा लोके पुरेव वः
वाणीं व्यास तदा दिव्यां सहसा लोकसाक्षिणीम् 5.1.51.
स्त्रीबालवृद्धसहिता महाकालवनं ययुः
सर्वत्र कुसुमाकीर्णां तरुच्छायाभिराश्रिताम्
मणिसोपानरचितां पद्मखंडैश्च मंडिताम्
ऋषयश्च महाभागा भृग्वंगिरसमु ख्यकाः
वसवश्च तथादित्या ह्यश्विनौ मरुतस्तथा
उपासते च शिप्रां वै संध्यावेलां समाहिताः
पतिव्रता महाभागास्तत्रैव पतिभिः सह
राजर्षयः समासीना निर्वाणपदवीं गताः