यत्र कीटपतंगाश्च शिप्रावारिचराश्च ये
कृत्वान्यत्र महापापं येऽन्ते शिप्रातटं श्रिताः
माधवे मासि संप्राप्ते निमज्जंति नरोत्तमाः 5.1.50.
वायसेनाहृतं मांसं तस्य राज्ञः कृतागसः
वापीकूपतडागादि अधिकाधिकसत्फलम्
तस्माद्दशगुणा तापी गोदा पुण्या ततोधिका तस्माद्दशगुणा शिप्रा पवित्रा पापनाशिनी
दमनस्य शरीरस्य मांसं शिप्रासमागतम्
ईदृशा च नदी रम्या अवन्त्यां भुवि वर्तते
धर्मराजवचः श्रुत्वा गणा विस्मय मागताः
गीयते च पुराणेषु यस्या माहात्म्यमुत्तमम्
दमनस्य च निर्मुक्तिः शिप्रामाहात्म्यमुत्तमम्
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये शिप्रामाहात्म्ये पञ्चाशत्तमो ऽध्यायः
यथाऽमृतभवा ख्याता पाताले नागसंमते
एकदा रुद्रो भिक्षार्थं नागलोके बुभुक्षितः
भिक्षां देहि वचो दीनं वाचयित्वा गृहेगृहे
तदा क्रोधाभिरक्ताक्षः शूलपाणिः क्षुधार्दितः
एकविंशतिकुण्डानि पीयूषस्य द्विजोत्तम
तत्र गत्वा स भगवाञ्छंभुः सर्वात्मसंभवः
रिक्तानि पीयूषकुण्डानि कृत्वा तत्रैव सोत्थितः
कस्येदं कर्म किं जातं सुधा यस्मादितो गता
महदतिक्रमणे शंकाः पुरात्ते निर्ययुर्बहिः
येनास्माकं कोपितेन हृतं चामृतमुत्तमम् 5.1.51.
इत्युक्त्वा पन्नगाः सर्वे सस्त्रीबालपरिग्रहाः
तेषामनुग्रहार्थाय वागुवाचाशरीरिणी
भिक्षार्थमागतः शम्भुः क्षुधार्तश्च गृहेगृहे
दत्ता न भिक्षा केनापि भोगवत्यां पिनाकिनः
तेन नष्टा सुधा सर्वा कुंडांते पन्नगोत्तमाः
तत्रैका वै सरिच्छ्रेष्ठा शिप्रानामेति विश्रुता
यस्या दर्शनमात्रेण सर्वपापक्षयो भवेत्
भजनं देवदेवस्य ततः पूजां करिष्यथ