वेदा यज्ञाश्च देवानां मूर्तिः पद्भ्यां च ताड्यते
स एकदा वने घोरे मृगयावनगोचरः
न लब्ध्वा खेटकं किंचित्क्षुधार्तस्तृषितः खलः 5.1.50.
रात्रिः समागता तत्र घोरा घोरनि षेविता
तत्राश्वं विटपे बद्ध्वा स्वयमेव न्यषीदत
किमिदं कुत आश्चर्यं कृत्वा हस्तेन वारितः
दष्टमात्रे च नृपतिर्व्यथितः क्षितिमागतः
एतत्क्षणात्प्रेतभूतो घोरे नरकसंचये
हर्षिताश्च गणाः सर्वे यमराजस्य किंकराः
एतस्मिन्नंतरे व्यास क्रव्यादैः खादितं शवम्
तत्र गत्वानयन्मांसं तुंडेन वियदुद्गतः
तत्राटतो हि यत्रास्ते दिव्या शिप्रा पयस्विनी
पतितं वै जले तस्याः शिप्रायास्तस्य काय जम् 5.1.50.
त्रिनेत्रोथ जटाजृटी व्याघ्रांबरपरीवृतः
इत्याश्चर्यमयं रूपं दृष्ट्वा दूताश्च धर्षिताः
श्रूयतां भो महाराज धर्मराज नमोस्तु ते
कीकटाधिमतिर्मंदः पापिष्ठो वृषलीपतिः
यानि कानि च पापानि ब्रह्महत्यासमानि च
मर्यादाभेदको मूढो वर्णाश्रमसुधर्मिणाम्
यमदंडपरः पापी अस्माकं हर्षवर्धनः
यावंतः पतिताः पूर्वे पापिनः सर्व एव हि
तदाप्रभृति सर्वाणि कुंडानि नरकस्य वै
न चैवार्तरवं किंचिच्छ्रूयते तव मंदिरे 5.1.50.
एक एवागतो लोके वृत्तिदो नो यमाधिप
धर्मराजस्तदाश्रुत्य किंकराणां परं वचः
येन पुण्यप्रभावेन पापिष्ठः शिवतां गतः
भुवि पुण्यतमे देशे महाकालवने शुभे
येषां शिप्रोदक स्पर्शो जायते भुवि किंकराः
मनसा वपुषा वाचा पापानि विविधानि च
शिप्राशिप्रेति यो ब्रूते यत्र कुत्रापि मानवः