पुष्कराणि च सर्वाणि गयातीर्थमनुत्तमम्
ख्यातं संगमजं तीर्थं शनेर्जन्मकथां शुभाम्
पुरुषोत्तममहिमानं काले केन कथं भवेत्
यस्मिन्काले यदा जाता महाकालवने शुभे
नास्ति वत्स महीपृष्ठे शिप्रायाः सदृशी नदी
वैकुण्ठे जायते शिप्रा ज्वरघ्नी च सुरालये
वाराहकल्पे वै प्रोक्ता विष्णुदेहेति नामतः 5.1.49.
वक्तुमर्हसि शिप्रायाः समासेन कथां शुभाम्
महादेवो विशुद्धात्मा सर्वलोकेषु सर्वतः
अप्राप्तभिक्षो भिक्षार्थी वैकुण्ठमगमद्विभुः
लोकनिंदापरः क्रुद्धः क्षुधितो बहुवासरैः
कपालं च करे कृत्वा इत्यु वाच पुनः पुनः
इत्युक्त्वा करमुद्यम्य तर्जन्यगुंलिमादधत्
तदांगुलिसमुद्भूतं बहु सुस्रावशोणितम्
तदा उद्वेलिता सा वै धारा जाता समं ततः
वैकुंठे चाभवत्सद्यो नदी त्रैलोक्यपावनी
ज्वरघ्नी च यथा प्रोक्ता तथा व्यास ब्रवीम्यहम् 5.1.49.
योधयामास दैत्येंद्रो ह्यनिरुद्धप्र हेलनः
तस्मात्क्रुद्धो वासुदेवश्चक्रमादाय सत्वरः
स तदा भग्नसंकल्पश्छिन्नदोश्च व्रणार्दितः
तदागतं महादैत्यं समीपे भयविह्वलम्
छित्त्वा बाहुसहस्रं वै दैत्यराजस्य चाहवे
स्थितो यत्राचलो व्यास तत्रागतो महेश्वरः
अन्योन्यं च समासाद्य कृत्वा युद्धं तु दारुणम्
वैष्णवास्त्रं तदा कृष्णः संदधे हरजिघांसया
संदधे वै तदा शंभुः कृष्णप्राणहरोत्सुकः
मोहनास्त्रं पुनः कृष्णः शिवोपरि मुमोच ह 5.1.49.
जृंभमाणः स्थितः संख्ये किंचित्कालं मुहुर्मुहुः
तदा क्रोधाभिभूतेन कृतो माहेश्वरो ज्वरः
त्रिनेत्रस्त्रिशिरा ह्रस्वस्त्रिपादो बर्कराकृतिः