स एव विद्यते व्यास महेशा सह संयुतः 5.1.48.
प्रलयो न बाधते व्यास महाकालवनोत्तमे
निरामया निरातंका निर्विकारा युगेयुगे
अत्रैव च वने रम्ये ब्रह्मा लोकपितामहः
मरीचिः कश्यपो रुद्रो येऽन्ये भृग्वादयस्तथा
एवमादौ पुरा व्यास कल्पं कल्पायते तदा
कल्पभेदाः समाख्याता महाकालवने शुभे
तावंति योगलिंगानि वने तिष्ठन्ति सत्तम
पुनःपुनर्भविष्यंति पुरी ह्येषाऽचला स्मृता
प्रतिकल्पेति विख्याता भुवि व्यास भविष्यति
जपं होमं तथा श्राद्धं पितॄनुद्दिश्य देवताः 5.1.48.
प्रतिकल्पामनुप्राप्य दृष्ट्वा देवं महेश्वरम्
प्रसंगतो रजः क्लांतः शिप्रांभसि च मानवाः
मन्वंतरसहस्रेषु काशिवासेषु यत्फलम्
प्रतिकल्पे च कल्पांते सैवासीच्च पुरी शुभा
ये चैतस्य महाभागाः प्रीतिं कुर्वंति मानवाः
यः शृणोति कथां पुण्यां प्रतिकल्पोद्भवां शुभाम्
युगेयुगे यथा जाता तथा ख्याता मयाऽनघ
शिप्रायाश्च कथां पुण्यां पवित्रां पापहारिणीम्
सुन्दरं कुंडमाख्यातं पिशाचमोचनं तथा
पुष्कराणि च सर्वाणि गयातीर्थमनुत्तमम्
ख्यातं संगमजं तीर्थं शनेर्जन्मकथां शुभाम्
पुरुषोत्तममहिमानं काले केन कथं भवेत्
यस्मिन्काले यदा जाता महाकालवने शुभे
नास्ति वत्स महीपृष्ठे शिप्रायाः सदृशी नदी
वैकुण्ठे जायते शिप्रा ज्वरघ्नी च सुरालये
वाराहकल्पे वै प्रोक्ता विष्णुदेहेति नामतः 5.1.49.
वक्तुमर्हसि शिप्रायाः समासेन कथां शुभाम्
महादेवो विशुद्धात्मा सर्वलोकेषु सर्वतः
अप्राप्तभिक्षो भिक्षार्थी वैकुण्ठमगमद्विभुः