यज्ञाय यज्ञमानाय हविषे ऋत्विजे नमः
अतिसौम्यातितीक्ष्णाय सुराणां पतये नमः
प्रकाशकाय सततं लोकानां हितकारिणे
आविर्बभूव सहसा भक्तस्य प्रियकाम्यया
रविरुवाच वरं वरय राजेंद्र प्रसन्नोऽस्मि तवाग्रतः 2.8.7.
मन्नाम्ना कृतमूर्त्तिस्ते तिष्ठत्वत्र सदा विभो
एतत्स्तोत्रं त्वयोक्तं मे ये पठिष्यंति मानवाः
तेभ्यस्तुष्टः प्रदास्यामि सर्वान्कामान्नरेश्वर
सर्वान्कामानवाप्नोति योऽत्र स्नानं समाचरेत्
यंयं काममिहेच्छेत तंतं काममवाप्नुयात्
भास्वान्सहस्रकिरणस्तदान्तर्द्धानमाययौ
राजा भास्करदेहोत्थां रविमूर्त्तिमनुत्तमाम्
घोषार्ककुण्डं तन्नाम्ना तत्र ख्यातिं जगाम ह
इति रुचिरविधानैस्तूर्णमादित्यमूर्त्तिं विमलपरमभक्त्या पूजयित्वाऽऽदरेण
रतिकुण्डमिति ख्यातं सर्वपापहरं सदा
यत्र स्नानेन दानेन परां कांतिमवाप्नुयात्
कुंडं प्रसिद्धमतुलं सर्वकामार्थसिद्धये लभते ना विधानेन मुने नास्त्यत्र संशयः
रतिकुंडे तथा विप्र कुसुमायुधकुण्डके
कुण्डद्वयेऽत्र मिथुनं यत्स्नानं कुरुते किल
तस्मादत्र विधानेन स्नातव्यं धर्मकांक्षिभिः
भवेतां नियतं तस्य संतुष्टौ रतिमन्मथौ
रतिकुंडे पुरः स्नात्वा पश्चात्कंदर्प्पकुंडके
रतिकंदर्प्पयोः पूजा विधातव्या विशेषतः
सर्वान्कामानवाप्नोति नात्र कार्या विचारणा ।। 2.8.8.
चंदनागुरुकर्पूरकस्तूरीकुंकुमादिभिः
एवं कृते न संदेहो रतिकंदर्पतुष्टये
कुसुमायुधकुंडात्तु प्रतीच्यां दिशि संस्थितम्
तत्र तीर्थे नरः स्नात्वा दृष्ट्वा मन्त्रेश्वरं विभुम्
पुरा रामो देवकार्यं विधायामलकर्मकृत्
स्वर्गं प्रति प्रयाणाय यत्र स्नातौ जितेंद्रियः