यावत्संख्या समाख्याता आयुरंतश्च तादृशः 5.1.48.
पक्षौ द्वौ तौ कृतौ मासौ मासौ द्वावृतुरुच्यते
दक्षिणं चोत्तरं चैव संख्यातत्त्वविशारदैः
पितॄणां तदहोरात्रमिति कालविदो विदुः
कृष्णपक्षे त्विह श्राद्धं पितॄणां वर्तते द्विज
देवानां तदहोरात्रं दिवा चैवोत्तरायणम्
दिव्यमब्दं शतगुणं दिव्यमब्दसहस्रकम्
अहोरात्रं दशगुणं मानवः पक्ष उच्यते
ऋतुर्मनूनां संप्रोक्तः प्राज्ञैस्तत्त्वार्थदर्शिभिः
चत्वार्येव सहस्राणि वर्षाणां तु कृतं युगम्
त्रीणि वर्षसहस्राणि त्रेता तत्परिमाणतः 5.1.48.
तथा वर्षसहस्रे द्वे द्वापरं परिकीर्तितम् ।। तस्य च द्विशती संध्या संध्यांशश्च तथा। परः
कलिर्वर्षसहस्रं तु संख्या चोक्ता मनीषिभिः
( ४८०० कृतं, ३६०० त्रेता, २४०० द्वापरम्, १२०० कलिः) एषा द्वादशसाहस्री युगसंख्या प्रकीर्तिता
ससर्ज स पुनस्तात जगत्सर्वमिदं ततः
युगं तदेकसप्तत्या गुणितं द्विजसत्तम
अयनं चापि तत्प्रोक्तं द्वेऽयने दक्षिणोत्तरे
ततोऽपरो मनुः कालमेतावन्तं भवेत्पुनः
तदैव चायनं प्रोक्तं मुनिना तत्त्वदर्शिना
सहस्रयुगपर्यंतं सा निशा प्रोच्यते बुधैः
तस्मिन्युगसहस्रे तु पूर्णे वै द्विजसत्तम 5.1.48.
युगानि सप्ततिं तानि साग्राणि कथितानि ते
चतुर्दशैते मनवः कथिताः कीर्तिवर्धनाः
प्रजानां पतयो व्यास धन्यमेषां प्रकीर्त नम्
मन्वंतरेषु संहाराः संहारांतेषु संभवाः । न शक्यमंतस्तेषां वै वक्तुं वर्षशतैरपि
विसर्गश्च प्रजानां वै संहारस्य च भारत
यत्र तिष्ठंति वै देवाः सर्वे सप्तर्षिभिः सह
पूर्णे युगसहस्रे तु कल्पो निःशेष उच्यते
ब्रह्माणमग्रतः कृत्वा सहादित्यैर्गणैर्द्विज
स स्रष्टा सर्वभूतानां कल्पांते तु पुनःपुनः