तत्र भोगवती दिव्या वरुणालय उत्तमः
संयमनीपुरी श्रेष्ठा धर्मराजेन पालिता
देवतानां पुरी रम्या वासवेनाभिरक्षिता
एवंविधानि रम्याणि पुरा बहुतराणि च 5.1.47.
क्वचिद्रंभाकृतद्वारा यवांकुरघटाः शुभाः
क्वचिद्बालाः पठंति स्म वेदाध्ययनका द्विजाः
क्वचिच्चावभृथस्नाताः क्वचिद्दानान्यकुर्वत
क्वचिदारामपूर्तं वै क्वचिद्यात्रावधारणम्
क्वचित्कथाप्रसंगांश्च परिशंसंति वाचकाः
क्वचिन्मल्ला नियुध्यंते नटा नाट्यपराः क्वचित्
चंचलाश्चपला बालाः श्यामाः षोडशवार्षिकाः
एवं व्यास पुरी रम्या निर्मिता योगमायया
विशाला बहुविस्तीर्णा पुण्या पुण्यजनाश्रया
विशालेति समाख्याता पुरी रम्या सनातनी 5.1.47.
विशालेति वदेन्नित्यं शिवलोके महीयते
विशाला सदृशी चान्या भुक्तिमुक्तिप्रदा नृणाम्
तदक्षयं भवेत्तेषां पितृकल्पे च गीयते
यत्र कुत्र गतास्ते वै मृता यांति शिवालयम्
विशालायां फलं शश्वच्छेषः शक्तो न वर्णितुम् महापापोद्भवात्पापान्मुच्यते नात्र संशयः
एवं व्यास पुरी जाता विशाला च कुशस्थली
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्र माहात्म्ये विशालाभिधानकथनंनाम सप्तचत्वारिंशोऽध्यायः
मया व्यासमुखात्प्राप्ता कल्पभेदे कथा शुभा
गुह्याद्गुह्यतरा श्रेष्ठा न देया यस्य कस्यचित्
एषा पुण्यतमा व्यास कथा पापहरा परा
प्रमाणं कल्पपर्यंतं ब्रह्मणः परमेष्ठिनः
यावत्संख्या परिमिता तावती शृणु सत्तम
तामुपादाय गणनां शृणु संख्या द्विजोत्तम
त्रिंशत्कला मुहूर्तस्तु त्रिंशता तैर्मनीषिणः
रविर्गतिविशेषेण सन्ध्यायां याति नित्यशः
पक्षौ मासा ऋतुश्चाब्दमयने च प्रकीर्तिते