स्फाटिकाभित्तिरचितां वैडूर्यमणिभूमिकाम्
आरक्तमणिदेहल्यां द्वारशाखाभिमंडिताम्
मणिरत्नसमाभूमिद्वाराजिरगृहांतराम्
हेमस्तं भध्वजोपेताः पताकाश्च गृहेगृहे 5.1.47.
वापीकूपतडागानि सरांसि विमलानि च
हंसकारंडवाकीर्णां शिखंडिगणशोभिताम्
क्वचिन्नृत्यंति मयूराः क्वचित्कूजंति कोकिलाः
नरनारीगणाकीर्णां वर्णाश्रमनिषेविताम्
चंद्रमालाकृतश्रेणीतोरणानीव च शोभते
यत्रालकापुरी रम्या कुबेरभवनांकिता
तत्र भोगवती दिव्या वरुणालय उत्तमः
संयमनीपुरी श्रेष्ठा धर्मराजेन पालिता
देवतानां पुरी रम्या वासवेनाभिरक्षिता
एवंविधानि रम्याणि पुरा बहुतराणि च 5.1.47.
क्वचिद्रंभाकृतद्वारा यवांकुरघटाः शुभाः
क्वचिद्बालाः पठंति स्म वेदाध्ययनका द्विजाः
क्वचिच्चावभृथस्नाताः क्वचिद्दानान्यकुर्वत
क्वचिदारामपूर्तं वै क्वचिद्यात्रावधारणम्
क्वचित्कथाप्रसंगांश्च परिशंसंति वाचकाः
क्वचिन्मल्ला नियुध्यंते नटा नाट्यपराः क्वचित्
चंचलाश्चपला बालाः श्यामाः षोडशवार्षिकाः
एवं व्यास पुरी रम्या निर्मिता योगमायया
विशाला बहुविस्तीर्णा पुण्या पुण्यजनाश्रया
विशालेति समाख्याता पुरी रम्या सनातनी 5.1.47.
विशालेति वदेन्नित्यं शिवलोके महीयते
विशाला सदृशी चान्या भुक्तिमुक्तिप्रदा नृणाम्
तदक्षयं भवेत्तेषां पितृकल्पे च गीयते
यत्र कुत्र गतास्ते वै मृता यांति शिवालयम्
विशालायां फलं शश्वच्छेषः शक्तो न वर्णितुम् महापापोद्भवात्पापान्मुच्यते नात्र संशयः
एवं व्यास पुरी जाता विशाला च कुशस्थली