मरीचेः कश्यपो जज्ञे ततः सर्वं प्रतिष्ठितम्
नंदनं चापि तत्रैव महाकालवनोत्तमे
सा सिषेवे सदा तत्र महाकालं महेश्वरम्
बिंदुसरः समाख्यातं मानसं सर उत्तमम्
मुक्तामणिगणाकीर्णं रत्नशोभनशोभितम्
यानि यानि च दिव्यानि संति ब्रह्माण्डगोलके
तेनतेनात्मयोगेन मानवाश्चात्र संस्थिताः
अन्योन्यं च समाकीर्णा सर्वे चामरसंनिभाः
अमरांगनासमा नार्यः सदैव स्थिरयौवनाः 5.1.46.
देवदानवगन्धर्वैः किन्नरोरगराक्षसैः
अमराणां कटकं ह्यत्र तस्माजातामरावती
स्नानदानादिकं कृत्वा पश्यत्येव महेश्वरम्
सर्वभोगानवाप्नोति मृतः शिवपुरं व्रजेत्
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्येऽमरावतीनामकथनंनाम षट्चत्वारिंशोऽध्यायः
विशाला च समाख्याता सर्वलोकेषु गीयते
तथाहं संप्रवक्ष्यामि ब्रह्मणा कथितं पुरा
उमया सहितो देव एक एवाचरद्वने
विष्णुर्दशाकृतिर्यत्र देव्यो वै लोकमातरः
कल्पोद्भेदाश्च लिंगाश्च चतुराशीतिसंख्यकाः
पितरो लोकपालाश्च सिद्धाः सिद्धिप्रदाश्च ये
किंनरा देवगन्धर्वा ह्यप्सराश्च वरांगनाः
यक्षा गुह्यकसंघाश्च पिशाचोरगराक्षसाः
उपासांचक्रिरे तत्र देवदेवमुमापतिम् उवाच श्लक्ष्णया वाचा शंकरं जगदाश्रयम्
पश्य एतान्महाभागान्ध्यायमानांस्तवाश्रितान् ।।5.1.47.
नानुपेक्ष्याश्च तान्सर्वान्वातवर्षातपार्दितान्
यथायोग्यं वासनार्थं स्थानं परमशोभनम्
एषा मे वासना स्वामिन्भवतां यदि रोचते कल्पयामास पुरीं रम्यां सर्वभूतमनोरमाम्
बहुयोजनविस्तीर्णां दिव्यां दिव्यजनप्रियाम्
दिव्याभिप्रायसंयुक्तां दिव्यस्थानमनोरमाम्
क्रयविक्रयसंपन्नहट्टाट्टालकचत्वराम्