गिरिगह्वरकुंजेषु गुहाध्वांतांतरेषु च
गृहदीर्घिकासु रम्यासु शालामालासु सर्वतः
कुमुद्वतीप्रफुल्लानि विराजंते सरांसि च
नद्यः सरांसि सर्वाणि वापीकूपसुपल्वलाः
यस्मात्सर्वेषु कालेषु प्रफुल्ला च कुमुद्वती 5.1.45.
कुमुद्वत्यां नरा ये तु श्राद्धं कुर्युः समाहिताः
अक्षयं लभते श्राद्धं पितॄणां दत्तमक्षयम्
यत्किंचित्क्रियते कर्म तत्सर्वं चाक्षयं भवेत्
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये कुमुद्वतीप्रभावकथनंनाम पञ्चचत्वारिंशोऽध्यायः
शृणु व्यास महाभाग यथा ब्रह्माब्रवीत्सुरान्
तथाहं संप्रवक्ष्यामि विस्तरेण तपोधन
मारीचः कश्यपस्तेपे तपः परमदुष्करम्
शीर्णपत्रानिलाहारो वायुभक्षी जितेन्द्रियः
श्रूयतां भो द्विजश्रेष्ठ मम वाक्यमनुत्तमम्
तस्मात्ते संततिस्तात यावच्चंद्रदिवाकरौ
अदितिस्ते सती भार्या त्वया सहाचरत्तपः
भविष्यंति सुताः सर्वे विष्णुश्चेंद्रपुरोगमाः
त्वं चापि च ऋषिश्रेष्ठः प्रजापतिरकल्मषः
इत्युक्त्वा च पुन र्देवी तत्रैवांतरधीयत 5.1.46.
कश्यपः सह दाक्षिण्या साग्निकः समुपाश्रितः
मरीचेः कश्यपो जज्ञे ततः सर्वं प्रतिष्ठितम्
नंदनं चापि तत्रैव महाकालवनोत्तमे
सा सिषेवे सदा तत्र महाकालं महेश्वरम्
बिंदुसरः समाख्यातं मानसं सर उत्तमम्
मुक्तामणिगणाकीर्णं रत्नशोभनशोभितम्
यानि यानि च दिव्यानि संति ब्रह्माण्डगोलके
तेनतेनात्मयोगेन मानवाश्चात्र संस्थिताः
अन्योन्यं च समाकीर्णा सर्वे चामरसंनिभाः
अमरांगनासमा नार्यः सदैव स्थिरयौवनाः 5.1.46.
देवदानवगन्धर्वैः किन्नरोरगराक्षसैः