रुद्रा ह्येकादश प्रोक्ता द्वादशार्कास्तथैव च
अष्टौ च दिग्गजाश्चैव मनवश्च चतुर्दश
गंधर्वासरसश्चैव किंनरोरगराक्षसाः । सिद्धास्तपस्विनो वत्स तत्रैव समुपस्थिताः
अष्टौ वै भैरवाः ख्याताश्चत्वारः पवनात्मजाः
एते देवगणाः प्रोक्ता रौद्राश्चैव तथा गणाः 5.1.45.
दक्षः प्रजापतिश्रेष्ठो दितिर्वै देवमातरः । सुरभीप्रमुखा गावः स्थावराणि चराणि च
तीर्थानि यानि सर्वाणि नद्यः प्रस्रवणानि च
सप्त पुर्यस्त्रयो ग्रामा नवारण्या नवोषराः
समुद्राश्चैव चत्वारो रत्नानि विविधानि च राजर्षयस्तथा शांता ब्राह्मणा वेदपारगाः
वेदाः पुराणस्मृतयो गाथा गीतिप्रहे लिकाः
तस्य दर्शनमात्रेण जातोऽहं विज्वरोऽमलः
स्नातोऽहं सर्वतीर्थेषु शुचिर्भूत्वा समाहितः
दृष्ट्वा पद्मावतीं शुद्धां सर्वकामवरप्रदाम्
न दुःखी न च दारिद्रो न मूर्खो नाजितेंद्रियः
अन्योन्यं सर्वमित्राणि अन्योन्यं चोपकारिणः 5.1.45.
उद्यानानि च रम्याणि वनान्युपवनानि च
नानारत्नसमाकीर्णैर्हेमकुंभैः सुशोभनैः
सदैव वसते यत्र उमया सह शंकरः
चंद्रज्योत्स्नाकलापूर्णमरीचिभिः सदा बभौ
सदैव पुष्पिता श्यामा बाल्यरूपवती यथा
गिरिगह्वरकुंजेषु गुहाध्वांतांतरेषु च
गृहदीर्घिकासु रम्यासु शालामालासु सर्वतः
कुमुद्वतीप्रफुल्लानि विराजंते सरांसि च
नद्यः सरांसि सर्वाणि वापीकूपसुपल्वलाः
यस्मात्सर्वेषु कालेषु प्रफुल्ला च कुमुद्वती 5.1.45.
कुमुद्वत्यां नरा ये तु श्राद्धं कुर्युः समाहिताः
अक्षयं लभते श्राद्धं पितॄणां दत्तमक्षयम्
यत्किंचित्क्रियते कर्म तत्सर्वं चाक्षयं भवेत्
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये कुमुद्वतीप्रभावकथनंनाम पञ्चचत्वारिंशोऽध्यायः
शृणु व्यास महाभाग यथा ब्रह्माब्रवीत्सुरान्