मोहनीरूपमास्थाय नारीभूत्वाभ्यगाद्धरिः
विह्वलांगाश्च ते सर्वे कामबाणवशंगताः
हस्तलाघवयोगेन देवानाममृतं ददौ
तेषामंतरगो भूत्वा पपौ चामृतमुत्तमम्
सुधास्पर्शप्रसंगेन न ममारासुरस्तदा 5.1.44.
राहुकायात्समुद्भूतं बहु सुस्राव शोणितम्
तत्र स्नात्वा शुचिर्भूत्वा राहोर्दर्शनतत्पराः
वांछितार्थमवाप्नोति गोसहस्र फलं भवेत्
विभज्य भागांस्ते सर्वे प्राप्य रत्नभुजोऽभवन्
सूर्याय च ददौ ह्यश्वं सप्तास्यं चाब्धिसंभवम्
पीयूषं दिविषद्गणान्ददौ चंद्रं च शंभवे
इंद्रक्रीडावने रम्ये नंदने च समर्पयत्
निधिरेष महापद्मः कुबेरभवनं गतः
यतोयतः प्रसरति प्रलयं यांति जंतवः
तदाप्रभृति महादेवो नीलकंठ इति स्मृतः 5.1.44.
मुक्त्वा स सर्वपापेभ्यः सर्वरत्नभुजो भवेत्
तदादाय सुराः सर्वे ब्रह्मविष्णुपुरोगमाः
उज्जयिनीं समासाद्य जाता रत्नभुजो वयम्
तस्मात्सर्वेषु कालेषु पद्मा वसतु निश्चला
य एतस्यां महाभागाः स्नानं दानं तथार्चनम्
न तेषां दुष्कृतं किंचिन्न दारिद्र्यं न दुर्गतिः
धनार्थी चैव पुत्रार्थो विद्यार्थो बहुकामुकः
सर्वान्कामानवाप्नोति शिवः साक्षाद्भवेन्नरः
ये शृण्वंति कथां पुण्यां ये श्रावयंति नित्यशः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखंडेऽवन्तीक्षेत्रमाहात्म्ये पद्मावतीनामकथावर्णनंनाम चतुश्चत्वारिं शोऽध्यायः
एषा कुमुद्वती जाता यथा पद्मावती पुरी
एकदा तीर्थयात्रायां गतोऽहं वै कुशस्थलीम्
यस्य दर्शनमात्रेण ब्रह्महत्यां व्यपोहति
यज्ञांश्चैव तथा चित्रानृत्विजोदारकर्मणः
ऋषिपत्न्यस्तथा साध्व्यः परिचर्यां प्रकुर्वते