वारितः कलहस्तेन देवदैत्यसमुद्भवः
सागरांते च रत्नानि तिष्ठंति विविधानि च
मथ्यतामुदधिः शीघ्रं नात्र कार्या विचारणा
मथ्यमानेंऽबुधौ तेषां मणिः प्राप्तश्च कौस्तुभः
धन्वंतरिरथोत्पन्नश्चंद्रो जातोऽपि वै ततः 5.1.44.
उच्चैःश्रवा हयश्रेष्ठः सुधा रंभा ततस्ततः
पांचजन्यस्तथा शंखः करे तिष्ठति मुरद्विषः
चतुर्दशापि रत्नानि प्राप्तानि विविधानि च
गत्वा ते च समासीना मंत्रं चक्रुः परस्परम्
कोलाहलस्तथोत्पन्नो नारदः पुनरभ्यगात्
मोहनीरूपमास्थाय नारीभूत्वाभ्यगाद्धरिः
विह्वलांगाश्च ते सर्वे कामबाणवशंगताः
हस्तलाघवयोगेन देवानाममृतं ददौ
तेषामंतरगो भूत्वा पपौ चामृतमुत्तमम्
सुधास्पर्शप्रसंगेन न ममारासुरस्तदा 5.1.44.
राहुकायात्समुद्भूतं बहु सुस्राव शोणितम्
तत्र स्नात्वा शुचिर्भूत्वा राहोर्दर्शनतत्पराः
वांछितार्थमवाप्नोति गोसहस्र फलं भवेत्
विभज्य भागांस्ते सर्वे प्राप्य रत्नभुजोऽभवन्
सूर्याय च ददौ ह्यश्वं सप्तास्यं चाब्धिसंभवम्
पीयूषं दिविषद्गणान्ददौ चंद्रं च शंभवे
इंद्रक्रीडावने रम्ये नंदने च समर्पयत्
निधिरेष महापद्मः कुबेरभवनं गतः
यतोयतः प्रसरति प्रलयं यांति जंतवः
तदाप्रभृति महादेवो नीलकंठ इति स्मृतः 5.1.44.
मुक्त्वा स सर्वपापेभ्यः सर्वरत्नभुजो भवेत्
तदादाय सुराः सर्वे ब्रह्मविष्णुपुरोगमाः
उज्जयिनीं समासाद्य जाता रत्नभुजो वयम्
तस्मात्सर्वेषु कालेषु पद्मा वसतु निश्चला
य एतस्यां महाभागाः स्नानं दानं तथार्चनम्