ब्रह्मोवाच देवदेव महादेव भक्तानामभयंकर
त्रिपुरोनाम दैत्येंद्रो देवानां कदनं महत्
वासयित्वा पुरस्तिस्रो विस्तीर्णा विचरत्यथ
एवं कृत्वा प्रजाः सर्वाः क्षयं नीताश्चराचराः
ऋषीणामाश्रमाः सर्वे यतीनामायतनानि च ।। एवं कृत्वा सुराः सर्वे भ्रष्टराज्याः पराजिताः ।ऽ
विचरंति यथा मर्त्यास्त्रिपुरेण दुरात्मना ।। 5.1.43.
तस्मात्सर्वप्रयत्नेन वधस्तस्य विचिंत्यताम्
इति श्रुत्वा वचस्तस्य ब्रह्मणः संशितात्मनः
जयोपायं करिष्यामि दैत्यस्यास्य दुरात्मनः
तपश्चरत यूयं वा आत्मनो जयकांक्षिणः
इत्युक्त्वा सर्वदेवानां तत्रैवांतर्हितः शिवः
जयार्थं तस्य दैत्यस्य त्रिपुरस्य दुरात्मनः
महिषैश्च महामेध्यैः पशुपुष्पार्घतर्पणैः पूजयित्वा तदा देवीं तामीडे वृषभध्वजः
दुर्गां भगवतीं भद्रां दुर्गसंसारतारणीम्
दैत्यमेदोमदोन्मत्तां रक्ताख्यां रक्तदंतिकाम्
महिषवाहिनीं श्यामां यक्षासनपरिग्रहाम् 5.1.43.
पूजयित्वा प्रसन्नात्मा ध्यानमास्थाय संस्थितः प्रसन्नवदना भूत्वा प्रत्यक्षं प्राह चंडिका
सर्वं त्वयोक्तं यच्छामि जगतामुपकारकम्
येन हन्मि महादैत्यं त्रिपुरं देवकंटक म्
मया दत्तं सुरश्रेष्ठ दैत्यनाशकरं परम्
महापाशुपतं शस्त्रं करे कृत्वा च शंकरः
उज्जहार तदा शंभुर्दैत्यनाशाय सत्वरः
स्तुतिं कृत्वा ययौ वाग्भिः पृष्ठतोऽनुययुः सुराः
मायिनं तं त्रिधा भित्त्वा मायायुद्धेन शंकरः
जयाशिषा प्रयुंजाना ऋषयः सिद्धचारणाः
अप्सरा ननृतुस्तत्र गंधर्वा ललितं जगुः 5.1.43.
जयशब्दस्तदा जातः प्राणिनां च गृहेगृहे
प्रवर्तंते तदा यज्ञा महोत्सवसदक्षिणाः
उज्जितो दानवो यस्मात्त्रैलोक्ये स्थापितं यशः
कृतं नाम ह्यवंत्या वा उज्जयिनी पापनाशिनी