भाद्रे शुक्लतृतीयायां यात्रा सांवत्सरी भवेत्
एवं कुर्वन्नरो विद्वान्विष्णुलोके वसेत्सदा
घोषार्ककुंडं परममुर्वशीकुंडदक्षिणे
यत्र स्नानेन दानेन सूर्यलोके महीयते
व्रणी कुष्ठी दरिद्री वा दुःखाक्रांतोऽपि यो नरः 2.8.7.
रविवारे विशेषेण कर्त्तव्यं स्नानमादरात्
कर्त्तव्यं विधिवत्स्नानं सूर्यलोकाभिकांक्षया
सप्तम्यां रवियुक्तायां स्नानं बहुफलप्रदम्
समुद्रमेखलामेकः पृथिवीं समपालयत्
यः प्रतापात्स्फुरन्भाति प्रभाकर इवापरः
स कदाचित्प्रजापालो मंत्त्रिविन्यस्तभूतलः
स राजा पूर्वजन्मोत्थपापैरशुभसूचकैः
मृगयायामभूदेकः कदाचित्पर्यटन्वने
तृषाक्रान्तो म्लानतनुः सरोऽपश्यत्पुरो नृपः
ततो विधिवदाचम्य स्नानं चक्रे नरेश्वरः 2.8.7.
मुनिभिस्तीर्थमाज्ञाय चक्रे सूर्य्यस्तुतिं प्रियाम्
राजोवाच भगवन्देवदेवेश नमस्तुभ्यं चिदात्मने
प्रभागेहाय देवाय त्रयीभूताय ते नमः
पराय परमेशाय त्रिलोकीतिमिरच्छिदे
योगप्रियाय योगाय योगज्ञाय सदा नमः
यज्ञाय यज्ञमानाय हविषे ऋत्विजे नमः
अतिसौम्यातितीक्ष्णाय सुराणां पतये नमः
प्रकाशकाय सततं लोकानां हितकारिणे
आविर्बभूव सहसा भक्तस्य प्रियकाम्यया
रविरुवाच वरं वरय राजेंद्र प्रसन्नोऽस्मि तवाग्रतः 2.8.7.
मन्नाम्ना कृतमूर्त्तिस्ते तिष्ठत्वत्र सदा विभो
एतत्स्तोत्रं त्वयोक्तं मे ये पठिष्यंति मानवाः
तेभ्यस्तुष्टः प्रदास्यामि सर्वान्कामान्नरेश्वर
सर्वान्कामानवाप्नोति योऽत्र स्नानं समाचरेत्
यंयं काममिहेच्छेत तंतं काममवाप्नुयात्