पुण्यं चाथाक्षयं लब्ध्वा पुनर्याताः सुरालयम्
येऽस्यां कुर्युर्महाभागाः स्नानं दानं तथार्चनम् 5.1.42.
तस्मात्सर्वप्रयत्नेन एतत्कार्यं सदा बुधैः
कल्पेकल्पे च यस्यां वै तेनावंती पुरी स्मृता
इत्युक्त्वा वै तदा देवाः स्वधाम परमं गताः
य एतां सुकथां दिव्यां पुण्यां च पापहारिणीम्
अपुत्रो लभते पुत्रमधनो धनमाप्नुयात्
पुण्यं लब्ध्वा नरो नित्यं शिवलोके महीयते
तथाहं संप्रवक्ष्यामि शृणुष्व त्वं समाहितः
त्रिपुराख्यो महादैत्यः सर्वदैत्यजनेश्वरः
आतपे चाग्निसेवां वै प्रावृषि मेघडंबरम्
शीर्णपत्र जलाहारो वायुभक्षी निराश्रयः
एवं वर्षसहस्रं तु तपस्तप्तं सुदुश्चरम्
व्रियतां भोऽसुरश्रेष्ठ वरं मत्तोभिवांछितम्
एवमुक्तः स विधिना दैत्यस्त्रिपुरसंज्ञितः त्रिपुर उवाच देवदानगंधर्वपिशाचोरगराक्षसैः
इत्युक्त्वा सहसा ब्रह्मा तत्रैवांतरधीयत
तदारभ्य महादैत्यो देवानां कदनं महत् 5.1.43.
वासयित्वा यत्र तत्र त्रिपुराणि चराणि च
तेषां वै कदनं चक्रे नानोपायेन पापधीः
न जुहुयुश्चाग्निहोत्रं सोमपानं न कर्हिचित्
स्वाहाकारस्वधाकारवषट्कारविवर्जिताः
देवतायतनं नास्ति तथा नो शिवपूजनम्
सदाचारजनो नास्ति दया मानविवर्जिता
एवं व्यास पुरे तस्मिन्नष्टप्रायमिदं जगत्
तेन देवगणाः सर्वे हतप्राया हतौजसः
अन्योन्यकृतसंधाना मंत्रं कृत्वा समा हिताः 5.1.43.
त्रिदशाः कथयामासुरात्मव्यसनकारणम्
जगाम त्रिदशैः सार्धं महाकालवनोतमम्
यत्रावंती पुरी दिव्या सर्वतीर्थनिषेविता
स्नानं दानं जपं होमं कृत्वा रुद्रसरे तदा