प्रजापतिगणाकीर्णं मानवैश्च चतुर्दशैः
संसेव्यं च सदाचारैः पुण्यवद्भिर्जनैस्तथा
मणिरत्नैश्च सोपानै र्दिव्यं सरसशोभितम् 5.1.42.
षडूर्मिरहितं स्थानं यत्र तिष्ठन्ति पक्षिणः स्तुतिमारेभिरे कर्तुं देवदेवजगत्पतेः
नृसिंहरूपायोग्राय नमो वाराहरूपिणे
वासुदेवाय शांताय यदूनां पतये नमः
इति स्तवाभियुक्तानां वागुवाचाशरीरिणी
महाकालवने रम्ये ब्रह्मर्षिगणसेविते
नाम्ना कुशस्थली रम्या सिद्धगंधर्वसेविता
कल्पक्षये क्षयं यांति स्थावराणि चराणि च
सरितः सागराः सर्वे सरांस्युपवनानि च
ज्योतींषि चंद्रसूर्यौ च सर्वं विष्णुमयं जगत् 5.1.42.
सर्वमादाय भगवाञ्छंकरस्तत्र तिष्ठति
सर्वयज्ञमयो वेदः सर्वधर्ममयी दया
तस्माद्धितकरं क्षेत्रं कुरूणां वै सुरोत्तमाः
तस्माद्दशगुणा काशी काश्या दशगुणा गया
उपरागसहस्राणि व्यतिपातायुतानि च
लक्षमिंदुक्षये दानं सहस्रं चायनद्वये
तस्माद्धितकरा देवा पुरी ह्येषा कुशस्थली
तत्सर्वं भोः सुरश्रेष्ठाः सर्वं तच्चाक्षयं भवेत्
क्षीणपुण्या भवंतो वै बाधंते तेन वः सुराः
तत्र गत्वा भवंतो वै स्नानदानादिकं भुवि 5.1.42.
एतच्छुत्वा वचस्तस्या वाण्याश्चाकाशगं तदा
पुनर्जग्मुः सुराः सर्वे यत्र माहेश्वरं वनम्
चातुर्वर्ण्यसमाकीर्णामृषिगंधर्वसेविताम्
दरिद्रो न जडो मूर्खो न रोगी न च मत्सरी
दाता शांताः सुशीलाश्च जरारोगविवर्जिंताः
नरा यत्र निवसंति नार्यश्चैव पतिव्रताः
ईदृशीं च पुरीं दृष्ट्वा देवा हर्षं परं गताः
पुण्यवद्भिः सदा सेव्यं सर्वतीर्थनिषे वितम्