तत्र विश्वपतिः श्रीमान्विश्वेशो विश्वकृद्विभुः
एवं कुशस्थली ख्याता हेमशृङ्गेति या पुरा
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये व्याससनत्कुमारसंवादे कुशस्थलीनामहेतुकथावर्णनंनामैकचत्वारिंशोऽध्यायः
तथा शृणु सुरैः पूर्वं दैत्यसैन्यपराजितैः
आश्रितं मेरुशिखरं वनकंदगुहावृतम्
अन्योन्यं च समासाद्य समभ्यर्च्य परस्परम्
निवेदयांचक्रिरे सर्वं तत्रागमनकारणम्
जगाम त्रिदशैः साकं देवदेवं महेश्वरम्
ऋद्धिसिद्धिप्रदं नित्यं मुनिचारणसेवितम्
ऋषिभिर्भार्गवादिभिर्देवर्षिनारदोत्तमैः
प्रजापतिगणाकीर्णं मानवैश्च चतुर्दशैः
संसेव्यं च सदाचारैः पुण्यवद्भिर्जनैस्तथा
मणिरत्नैश्च सोपानै र्दिव्यं सरसशोभितम् 5.1.42.
षडूर्मिरहितं स्थानं यत्र तिष्ठन्ति पक्षिणः स्तुतिमारेभिरे कर्तुं देवदेवजगत्पतेः
नृसिंहरूपायोग्राय नमो वाराहरूपिणे
वासुदेवाय शांताय यदूनां पतये नमः
इति स्तवाभियुक्तानां वागुवाचाशरीरिणी
महाकालवने रम्ये ब्रह्मर्षिगणसेविते
नाम्ना कुशस्थली रम्या सिद्धगंधर्वसेविता
कल्पक्षये क्षयं यांति स्थावराणि चराणि च
सरितः सागराः सर्वे सरांस्युपवनानि च
ज्योतींषि चंद्रसूर्यौ च सर्वं विष्णुमयं जगत् 5.1.42.
सर्वमादाय भगवाञ्छंकरस्तत्र तिष्ठति
सर्वयज्ञमयो वेदः सर्वधर्ममयी दया
तस्माद्धितकरं क्षेत्रं कुरूणां वै सुरोत्तमाः
तस्माद्दशगुणा काशी काश्या दशगुणा गया
उपरागसहस्राणि व्यतिपातायुतानि च
लक्षमिंदुक्षये दानं सहस्रं चायनद्वये
तस्माद्धितकरा देवा पुरी ह्येषा कुशस्थली
तत्सर्वं भोः सुरश्रेष्ठाः सर्वं तच्चाक्षयं भवेत्