कल्पे तत्पुरुषे पूर्वं वेदविद्भिर्मनीषिभिः
वेधसा सृजितं विश्वं दैत्यदानवरा क्षसम्
देवाश्च दानवाः संख्ये नित्यं स्पर्धासमन्विताः
चारणाः किंनरैः सार्धमेवं ते द्वेषतत्पराः
सर्वे चैव च बलिनो दुर्बलैर्मनुजैः सह
एवमन्योन्यमन्यैश्च निर्मर्यादमिदं जगत्
व्रजामि शरणं देवं शरणार्त्तिहरं हरिम्
ततो ध्यातो महायोगी विश्वरूपधरो हरिः
ब्रह्मन्ध्यातस्त्वया सम्यग्ध्यानयोगेन पश्य माम्
ततो धाता निशम्यैतत्त्यक्त्वा ध्यानमवेक्ष्य तम् 5.1.41.
पाद्येनाचमनीयेन मधुपर्केण केशवम्
ऋते त्वया जगद्विष्णो नैवावस्थातु मर्हति
शास्ता त्वमस्य विश्वस्य विशुद्धस्य च नापरः
देवदानवगंधर्वाः सयक्षो रगराक्षसाः परस्परं विनिघ्नंति तांश्च त्वं रक्षितुं क्षमः
त्वमस्य विश्वस्य चराचरस्य स्थितेः सदा प्राणभृदात्मरूपिणी
त्वया धृतं सर्वमिदं जगद्वै यतस्ततोऽसि त्वमुपेन्द्रसंज्ञः
निवासितं विश्वमिदं त्वयाद्य वासश्च धातोरिति वासुदेवः
सेनानुरूपं जगदेव यस्मादतः स्मृतस्त्वं किल विश्वसेनः
जितं त्वया देव जगत्त्रयं यज्जितेश्च धातोस्त्वमतोऽसि जिष्णुः
त्वमस्य सर्वस्य भवादिराजस्तवास्तु भद्रासनमद्वितीयम 5.1.41.
सुदर्शनं नाम तवास्ति चक्रमतो हि गीतः कविभि स्तु चक्री
तुरंगमाः संतु तवारिसंहरे तथा हृषीकेश सुदन्तदन्तिनः
विचित्रवस्त्रोत्तमरक्तमाल्यैर्विभूषितस्त्वं भव भीमसेनः
तवानुगा भक्तिरिहास्तु वै सती मुकुन्द भक्ते त्वमतः प्रसीद मे
विरिंच मे दर्शय तस्य मंडलं त्वया विमुक्तं च सदाशिवं विभो
स्थिरं स्थि यत्र जगत्करोम्यहं ततो विरंचिः कुशमुष्टिमाददे
ततः स्थलीमुच्चतरामवाप्य पितामहः केशवमाह चादरात्
त्वमेव विष्णुर्विबुधार्चितः सदा स्मृतो मुनींद्रैः स च विष्टरश्रवाः
कुशस्थलीं संस्थित एव देव इत्थं विधात्रा पुरुषोत्तमः स्तुतः
समंततो योजनसं ख्ययावृतां ततो विधाता पुरुषोत्तमस्तथा 5.1.41.