निवसंति न ते मर्त्याः सुरास्ते वै न संशयः
वर्तते च पुरी तत्र रम्यहर्म्या सुशोभना
स्वर्णशृङ्गाश्च प्रासादा विहिता विश्वकर्मणा
पूर्वकल्पे स्थितोऽहं च यत्र त्वं केशवस्तथा
तथा देवर्षयः सिद्धा यक्षकिंनरदानवाः
तथैव च वरा नार्यो देवानामतिवल्लभाः 5.1.40.
आगत्य च यदा देवः सह देवैर्महेश्वरः
प्रासादैः स्वर्णशृंगाढ्यैर्मणिरत्नविभूषितैः
तत्रास्ते शोभने दिव्ये प्रासादे मणिभूषिते
ततो महेशश्च पितामहश्च समेत्य तं विश्वपतिं ननंदतुः
किमागतौ वा त्रिदिवान्महीतलं सहानुगावाश यकश्च कथ्यताम्
त्वया विना नैव सुरालये सुखं महीतले वाथ रसातलेऽ स्ति नः
प्रयच्छ विश्वेश्वर चावयोरिह स्थानं च तीर्थं प्रलयेऽक्षयं च
ददाम्यभीष्टं युवयोरिहालयं प्रजापते ह्युत्तरतस्तव स्थितिः
महाकालो ह्यधोज्वालो जगदात्मा प्रभुः स्थितः
क्रीडार्थं नगरी सृष्टा सर्वभूतहितैषिणा 5.1.40.
भवद्भ्यां हेमशृं गेति यस्माच्च समुदीरिता
एवं कनकशृङ्गेति प्रथमं नाम कथ्यते
जपंतश्च स्थिता यत्र ब्रह्मविष्णुमहेश्वराः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये कनकशृङ्गाभिधानवृत्तांतवर्णनंनाम चत्वारिंशोऽध्यायः
कल्पे तत्पुरुषे पूर्वं वेदविद्भिर्मनीषिभिः
वेधसा सृजितं विश्वं दैत्यदानवरा क्षसम्
देवाश्च दानवाः संख्ये नित्यं स्पर्धासमन्विताः
चारणाः किंनरैः सार्धमेवं ते द्वेषतत्पराः
सर्वे चैव च बलिनो दुर्बलैर्मनुजैः सह
एवमन्योन्यमन्यैश्च निर्मर्यादमिदं जगत्
व्रजामि शरणं देवं शरणार्त्तिहरं हरिम्
ततो ध्यातो महायोगी विश्वरूपधरो हरिः
ब्रह्मन्ध्यातस्त्वया सम्यग्ध्यानयोगेन पश्य माम्
ततो धाता निशम्यैतत्त्यक्त्वा ध्यानमवेक्ष्य तम् 5.1.41.