तस्माद्ब्रूहि ममैकं तु प्रश्नं तथ्येन सांप्रतम्
कुशस्थली कथं नाम तथावंती कथं स्मृता
नाम्नां हेतुमथो तेषां ब्रूहि त्वं मुनिसत्तम
कथितं वामदेवाय गौरकल्पे पुरातने
महेशेन भगवता विधिश्चैवात्र हेतुतः
स्वर्गप्राप्तिश्च भवति स्वेच्छाचारविहारिणाम्
कुतो निवर्तितं चित्तं जायते वसतां क्वचित् एतन्मे भगवन्ब्रूहि हितार्थं सर्वदेहिनाम् 5.1.40.
प्रोवाच पार्वतीकांतं प्रभुः प्रीतः पितामहः
अजानन्निव त्वं सर्वं मां पृच्छसि सनातन
त्वमेव च महाकालः सर्वं वै ज्ञायते त्वया
निवसंति न ते मर्त्याः सुरास्ते वै न संशयः
वर्तते च पुरी तत्र रम्यहर्म्या सुशोभना
स्वर्णशृङ्गाश्च प्रासादा विहिता विश्वकर्मणा
पूर्वकल्पे स्थितोऽहं च यत्र त्वं केशवस्तथा
तथा देवर्षयः सिद्धा यक्षकिंनरदानवाः
तथैव च वरा नार्यो देवानामतिवल्लभाः 5.1.40.
आगत्य च यदा देवः सह देवैर्महेश्वरः
प्रासादैः स्वर्णशृंगाढ्यैर्मणिरत्नविभूषितैः
तत्रास्ते शोभने दिव्ये प्रासादे मणिभूषिते
ततो महेशश्च पितामहश्च समेत्य तं विश्वपतिं ननंदतुः
किमागतौ वा त्रिदिवान्महीतलं सहानुगावाश यकश्च कथ्यताम्
त्वया विना नैव सुरालये सुखं महीतले वाथ रसातलेऽ स्ति नः
प्रयच्छ विश्वेश्वर चावयोरिह स्थानं च तीर्थं प्रलयेऽक्षयं च
ददाम्यभीष्टं युवयोरिहालयं प्रजापते ह्युत्तरतस्तव स्थितिः
महाकालो ह्यधोज्वालो जगदात्मा प्रभुः स्थितः
क्रीडार्थं नगरी सृष्टा सर्वभूतहितैषिणा 5.1.40.
भवद्भ्यां हेमशृं गेति यस्माच्च समुदीरिता
एवं कनकशृङ्गेति प्रथमं नाम कथ्यते
जपंतश्च स्थिता यत्र ब्रह्मविष्णुमहेश्वराः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये कनकशृङ्गाभिधानवृत्तांतवर्णनंनाम चत्वारिंशोऽध्यायः