यः पठेत्स्तुतिमिमां शुचिकर्मा यः शृणोति सततं शिवभक्तः
पूर्णे वर्षशतस्यांते प्रीतः प्रोवाच शंकरः
पुत्र तुष्टोऽस्मि भद्रं ते जातस्त्वं निर्मलोऽधुना
यच्च ते मनसा वापि किंचिच्च कांक्षितं फलम्
विदितं मम तत्सर्वं मनागपि न कांक्षये
यदि तुष्टोऽसि देवेश गाणपत्यं ददस्व मे
भविष्यसि गणाध्यक्षः सर्वलोकनमस्कृतः ।। 5.1.38.
कामरूपो महायोगी महासत्त्वो महाबलः
महादेवगणो भूत्वा तत्रैवांतरधीयत
गतेंऽधके ततो देव्यो ब्रह्माण्याद्याः समागताः
तास्तष्टुवुर्महादेवमथ तुष्टो महेश्वरः
शंकरं प्रणतं दृष्ट्वा तासामग्रे व्यवस्थितम्
प्रशांतास्ता यदा हृष्टाः शंभुना रुधिराशनाः
आवंत्ये विषये सर्वा यस्माजाता महाबलाः
अवंत्यां प्रीतिसंपन्नाः सर्वपापप्रणाशिनीः
श्रावणस्य तु मासस्य अमावास्यां समाहिताः
अपुत्रो लभते पुत्रान्धनार्थी लभते धनम् 5.1.38.
हंसयुक्तेन यानेन पितृलोके महीयते
एवमुक्त्वा तु देवेशो गतः कैलास पर्वतम्
असुरसुरगणानां नायकस्यानुकीर्तिं कथयति कथनीयां श्रद्धया यः शृणोति
तीर्थानामुत्तमं तीर्थं पुण्यानां पुण्यवर्धनम्
कति संत्यत्र तीर्थानि लिंगानि च तथा कति
महाकालवने व्यास लिंगसंख्या न विद्यते
अकामो वा सकामो वा जायते योऽत्र मानवः
कृतकामानि तीर्थानि प्रासादायतनानि च
पुण्यानि सर्वतीर्थानि सिद्धिक्षेत्राणि सर्वतः
यः शृणोति महाभक्त्या स याति परमां गतिम्
ईश्वरस्थानमाख्यातं समंतात्साग्रयोजनम्
यत्र क्षेत्रे मृता मर्त्याः सदाचारास्तथोत्तमाः
यत्र कीटपतंगाद्या मृता यांति परां गतिम्