यः सिद्धचारणनिषेवितपादपद्मो गंगां महोर्मिविषमां गगनात्पतंतीम्
कैलासशैलशिखरं प्रविकंप्यमानं कैलासशृंगसदृशेन दशाननेन
दक्षाध्वरे च नयने च तथा भगस्य पूष्णस्तथा दशनपंक्तिमशातयद्यः
येनासकृद्दितिसुताश्च दनोः सुताश्च विद्याधरोरगगणाश्च वरैः समग्रैः
एवं कृतेपि विषयेष्वपि सक्तभावा ज्ञानेन च श्रुतगुणैरपि तेन युक्ताः
ब्रह्मेंद्रविष्णुमरुतां च सषण्मुखानां योऽदाद्वरान्सुबहुशो भगवान्महेशः
आराधितस्तु तपसा हिमवन्निकुंजे धूम्रव्रतेन तपसा च परैरगम्यः 5.1.38.
क्रीडार्थमेव भगवान्भुवनानि सप्त नानानदीविहगपादपमंडितानि
यः सव्यपाणिकमलाग्रनखेन देवस्तत्पंचमं प्रसभमेव करालरंध्रम्
ये त्वां सुरोत्तमगुरुं पुरुषा विमूढा जानंति नास्य जगतः सचराचरस्य
यः पठेत्स्तुतिमिमां शुचिकर्मा यः शृणोति सततं शिवभक्तः
पूर्णे वर्षशतस्यांते प्रीतः प्रोवाच शंकरः
पुत्र तुष्टोऽस्मि भद्रं ते जातस्त्वं निर्मलोऽधुना
यच्च ते मनसा वापि किंचिच्च कांक्षितं फलम्
विदितं मम तत्सर्वं मनागपि न कांक्षये
यदि तुष्टोऽसि देवेश गाणपत्यं ददस्व मे
भविष्यसि गणाध्यक्षः सर्वलोकनमस्कृतः ।। 5.1.38.
कामरूपो महायोगी महासत्त्वो महाबलः
महादेवगणो भूत्वा तत्रैवांतरधीयत
गतेंऽधके ततो देव्यो ब्रह्माण्याद्याः समागताः
तास्तष्टुवुर्महादेवमथ तुष्टो महेश्वरः
शंकरं प्रणतं दृष्ट्वा तासामग्रे व्यवस्थितम्
प्रशांतास्ता यदा हृष्टाः शंभुना रुधिराशनाः
आवंत्ये विषये सर्वा यस्माजाता महाबलाः
अवंत्यां प्रीतिसंपन्नाः सर्वपापप्रणाशिनीः
श्रावणस्य तु मासस्य अमावास्यां समाहिताः
अपुत्रो लभते पुत्रान्धनार्थी लभते धनम् 5.1.38.
हंसयुक्तेन यानेन पितृलोके महीयते
एवमुक्त्वा तु देवेशो गतः कैलास पर्वतम्
असुरसुरगणानां नायकस्यानुकीर्तिं कथयति कथनीयां श्रद्धया यः शृणोति