तस्मिन्मुखे कपालाग्रं निधाय रुषितानना
तया पिबंत्या दैत्येंद्रः शरीरे कृशतां गतः
इत्थं निर्वीर्यदेहोऽसौ बभूवांध कदानवः
तीव्रं भयं समासाद्य प्राणत्राणपरायणः
कृतांजलिपुटो भूत्वा रोमांचितशरीरकः
लोकानां कारणं देवं विबुधाधि पतिं प्रभुम्
श्लाघ्यं शिवं च तुष्टाव देवं चंद्रार्धशेखरम् ।। 5.1.38.
संसारहेतुरपि यः पुनरंतकाले तं शंकरं शरणदं शरणं व्रजामि
यं योगिनो विगतमोहतमोरजस्का भक्त्यैकतानमनसो विनिवृत्तकामाः
यश्चंद्रखंडममलं विलसन्मयूखं बद्ध्वा सदा सुरसरिच्छिरसा बिभर्ति
यः सिद्धचारणनिषेवितपादपद्मो गंगां महोर्मिविषमां गगनात्पतंतीम्
कैलासशैलशिखरं प्रविकंप्यमानं कैलासशृंगसदृशेन दशाननेन
दक्षाध्वरे च नयने च तथा भगस्य पूष्णस्तथा दशनपंक्तिमशातयद्यः
येनासकृद्दितिसुताश्च दनोः सुताश्च विद्याधरोरगगणाश्च वरैः समग्रैः
एवं कृतेपि विषयेष्वपि सक्तभावा ज्ञानेन च श्रुतगुणैरपि तेन युक्ताः
ब्रह्मेंद्रविष्णुमरुतां च सषण्मुखानां योऽदाद्वरान्सुबहुशो भगवान्महेशः
आराधितस्तु तपसा हिमवन्निकुंजे धूम्रव्रतेन तपसा च परैरगम्यः 5.1.38.
क्रीडार्थमेव भगवान्भुवनानि सप्त नानानदीविहगपादपमंडितानि
यः सव्यपाणिकमलाग्रनखेन देवस्तत्पंचमं प्रसभमेव करालरंध्रम्
ये त्वां सुरोत्तमगुरुं पुरुषा विमूढा जानंति नास्य जगतः सचराचरस्य
यः पठेत्स्तुतिमिमां शुचिकर्मा यः शृणोति सततं शिवभक्तः
पूर्णे वर्षशतस्यांते प्रीतः प्रोवाच शंकरः
पुत्र तुष्टोऽस्मि भद्रं ते जातस्त्वं निर्मलोऽधुना
यच्च ते मनसा वापि किंचिच्च कांक्षितं फलम्
विदितं मम तत्सर्वं मनागपि न कांक्षये
यदि तुष्टोऽसि देवेश गाणपत्यं ददस्व मे
भविष्यसि गणाध्यक्षः सर्वलोकनमस्कृतः ।। 5.1.38.
कामरूपो महायोगी महासत्त्वो महाबलः
महादेवगणो भूत्वा तत्रैवांतरधीयत
गतेंऽधके ततो देव्यो ब्रह्माण्याद्याः समागताः