पुरा किल मुनिर्धीरो रैभ्यो नाम तपोधनः
तत्तपो विपुलं दृष्ट्वा भीतः सुरपतिस्ततः
ततः सा प्रेषिता तेनाजगाम गजगामिनी
वनफुल्ललताकुञ्जे मञ्जुकूजद्विहंगमे
पुन्नागकेशराशोकच्छिन्नकिजल्कपिंजरे 2.8.7.
सा बभौ कांतिसर्वस्वकोशः कुसुमधन्वनः
अंगप्रभासुवर्णेन सितमौक्तिकशोभिता
विलोमलोचनापांगतरंगधवलत्विषा
कर्णोपलम्बिसंघुष्यद्भृङ्गाढ्यचूतमञ्जरी
तनुमध्या पृथुश्रोणिर्वर्णोद्भिन्नपयोधरा
अपश्यदाश्रमे तस्मिन्मुनिरायतलोचनाम्
त्रिनेत्रवंचनायैव कल्पितां ललनातनुम्
विलोक्य तां विशालाक्षीं मुनिर्व्याकुलितेन्द्रियः
समागता तपोविघ्नहेतवे मम सन्निधौ
उवाच वनिता भूत्वा प्रांजलिर्मुनिमादरात् 2.8.7.
त्वच्छापस्य कथं मुक्तिर्भविता नियतव्रत
तत्र स्नानं कुरुष्वाद्य सौंदर्यं परमाप्नुहि
त्वन्नाम्नैव च विख्यातिं तोयं यास्यति तद्ध्रुवम्
सुन्दरी साऽभवत्क्षिप्रं तत्स्थानं ख्यातिमाययौ
अत्र स्नानं मुनिश्रेष्ठ यः कुर्याद्विधिवज्जनः
भाद्रे शुक्लतृतीयायां यात्रा सांवत्सरी भवेत्
एवं कुर्वन्नरो विद्वान्विष्णुलोके वसेत्सदा
घोषार्ककुंडं परममुर्वशीकुंडदक्षिणे
यत्र स्नानेन दानेन सूर्यलोके महीयते
व्रणी कुष्ठी दरिद्री वा दुःखाक्रांतोऽपि यो नरः 2.8.7.
रविवारे विशेषेण कर्त्तव्यं स्नानमादरात्
कर्त्तव्यं विधिवत्स्नानं सूर्यलोकाभिकांक्षया
सप्तम्यां रवियुक्तायां स्नानं बहुफलप्रदम्
समुद्रमेखलामेकः पृथिवीं समपालयत्
यः प्रतापात्स्फुरन्भाति प्रभाकर इवापरः