भूतप्रेतपिशाचाद्यैर्नासौ केनापि बाध्यते 5.1.36.
यः पश्येच्छंखिनं देवं सोऽच्युतं स्थानमाप्नुयात्
यः स्थूलसूक्ष्मप्रकटप्रकाशो यः सर्वभूतो न च सर्वभूतः
सनत्कुमार उवाच भिन्नेंऽधके त्रिशूलेन ध्वनी रुद्रस्य निर्गतः
तत्र स्नात्वा शुचिर्भूत्वा समाधिनियमेन च
हत्वांधके त्रिशूलश्च भोगवत्या जले ययौ पप्रच्छ केन कार्येण भवानिह समागतः
कथयामास शूलोसौ शंकरेणाहमीरितः
भित्त्वा तमहमायातो भोगवत्या जले शुभे
शूलोक्तं वचनं श्रुत्वा परमेशदिदृक्षया बहुवक्त्रसमाकीर्णं सुप्रभं सुमनोरमम्
तं दृष्ट्वा त्रिदशाः सर्वे शूलेशं हाटकेश्वरम्
तुष्टुवुर्विविधैः स्तोत्रैर्ब्रह्मविष्णुपुरोगमाः
निर्गतः शूलमार्गेण तेन शूलेश्वरः स्मृतः
तत्र पापः स दैत्येंद्रो धूतः शूलेन वीर्यवान् 5.1.37.
अष्टम्यां वा पौर्णमास्यां चतुर्दश्यां शनौ तथा
धूतपापं तु यः पश्येद्देवदेवं महेश्वरम्
कुलानां शतमुद्धृत्य शिवलोकं च गच्छति
शूलेश्वरप्रभावेन मुच्यते ब्रह्महत्यया
इति चांधकशूलोयं यावद्भोगवतीं गतः
खड्गहस्ता महावीर्या अनेकशतसंख्यया सिंहनादं मुमोचाथ पीडितस्तैर्दुरात्मभिः
सिंहनादेन ते पापा मूर्छिताः पतिता भुवि वित्रस्ताश्च ततो देवा ब्रह्मविष्णुपुरोगमाः
असाध्यांस्तांस्तथा मत्वा मंत्रं कृत्वा हितैषिणः
इत्युक्त्वोत्पादयामास ब्रह्मा हंसासनां शुभाम्
कुमारश्चैव कौमारीं मयूरवरवाहनाम् 5.1.37.
पुनः कुमारः कौमारीं पक्षींद्रवरवाहनाम्
दैत्यदेहप्रमथनीं दंडमुद्गरधारिणीम्
सिंहाजिनधरां कृष्णां सर्वभूषणभूषिताम् चर्मास्थिकेशवपुषं चामुंडाममृजत्प्रभुः
वटस्य निकटे पूर्वं निर्मिता लोकमातरः
तत्र स्नात्वा शुचिर्भूत्वा मातॄः पश्यति यो नरः
सिंहनादोऽपि देवेन कृतो यत्र महामुने
दर्शनात्तस्य देवस्य सिंहवत्स बली भवेत्