सूर्यलोकं प्रयात्याशु यत्सुरैरपि दुर्लभम् 5.1.36.
नरेणैव प्रसादेन नरदीपस्ततो ह्ययम्
आगमिष्याम्यहं पार्थ सार्धं देवैः समाहितः
तत्राहमागतो ज्ञेयो लोके देवस्य वर्षणात्
दृष्ट्वा देवं तथारूढं नरदीपं सुदीपितम्
यः पश्येन्मानवो भक्त्या नरदीपं रथस्थितम्
रथयात्रामथो वक्ष्ये नरदीपस्य या मुने
ज्येष्ठे सिते द्वितीयायां रथस्थो हि दिवाकरः
उत्तरां दिशमायांतं यः पश्यति दिवस्पतिम्
निवृत्य केशवार्काद्यो रथं पश्यति मानवः
रथमाकर्षते यस्तु रज्ज्वाकर्षेण वै मुने 5.1.36.
दक्षिणाभिमुखं यांतं नरदीपं द्विजोत्तम
सूत्रेण वेष्टयेत्क्षेत्रं रथं देवमथापि वा
प्रदक्षिणां तु सूर्यस्य भक्त्या कुर्वंति ये नराः
प्रातरुत्थाय यो भक्त्या मौनी याति दिवाकरम्
प्रविश्य दक्षिणेनैव रथचक्रं प्रपूजयेत्
पश्चिमं द्वारमाश्रित्य रथस्थं सूर्यमर्चयेत्
पूर्वद्वारे तु गौर्दे या तथाश्वश्चैव दक्षिणे
कुर्यादेव तु यो यात्रां नरदीपस्य मानवः
गोसूर्यशिवशक्राणां स्वर्लोकं लभते शुभम्
दद्याद्गवां सहस्रं यो व्यतीपातशते नरः 5.1.36.
नरदीपे रथारूढे वपनं कारयेत्तु यः
सूर्यस्य पुरतो वाप्यां मासं नित्यं सरस्वती
भक्त्या योऽनुदिनं व्यास नरदीपं प्रपश्यति
प्रक्रीड्य बंधुभिः सार्धं मृतः सूर्यपुरं व्रजेत्
हतेंऽधके महेशेन शूलेन त्रिशिखेन वै
शंखं दध्मौ तदा विष्णुः सुराणां हितकाम्यया
तत्र संनिहितो विष्णुर्लिंगं चैव चतुर्मुखम्
देवस्य दक्षिणे भागे शूलेनाधिष्ठितः स्थितः
ते क्षीणाशेषपापौघाः प्राप्स्यंति परमां गतिम्