तमसा च्छादिता देवाः संबभूवुः समाकुलाः 5.1.36.
एतस्मिन्नंतरे व्यास नरादित्यः स्वतेजसा
नष्टे तमसि दैत्येपि प्रकाश प्रकटे सति
स्तुवंतो विविधैः स्तोत्रैर्नररूपं दिवाकरम्
तेनास्य नाम ते चकुर्नरदीप इतीश्वराः
मुच्यते सर्वपापेभ्यो यद्यपि ब्रह्महा भवेत्
दिनच्छिद्रेथ संक्रांतौ ग्रहणे विषुवत्यथ
नरदीपं नरः पश्येत्स्तोत्रवा दित्रमंगलैः
गीतं वाद्यं पुरस्कृत्य प्रणम्याष्टांगमेव च
स मुक्तः सर्वपापैस्तु सप्तजन्मकृतैरपि
सूर्यलोकं प्रयात्याशु यत्सुरैरपि दुर्लभम् 5.1.36.
नरेणैव प्रसादेन नरदीपस्ततो ह्ययम्
आगमिष्याम्यहं पार्थ सार्धं देवैः समाहितः
तत्राहमागतो ज्ञेयो लोके देवस्य वर्षणात्
दृष्ट्वा देवं तथारूढं नरदीपं सुदीपितम्
यः पश्येन्मानवो भक्त्या नरदीपं रथस्थितम्
रथयात्रामथो वक्ष्ये नरदीपस्य या मुने
ज्येष्ठे सिते द्वितीयायां रथस्थो हि दिवाकरः
उत्तरां दिशमायांतं यः पश्यति दिवस्पतिम्
निवृत्य केशवार्काद्यो रथं पश्यति मानवः
रथमाकर्षते यस्तु रज्ज्वाकर्षेण वै मुने 5.1.36.
दक्षिणाभिमुखं यांतं नरदीपं द्विजोत्तम
सूत्रेण वेष्टयेत्क्षेत्रं रथं देवमथापि वा
प्रदक्षिणां तु सूर्यस्य भक्त्या कुर्वंति ये नराः
प्रातरुत्थाय यो भक्त्या मौनी याति दिवाकरम्
प्रविश्य दक्षिणेनैव रथचक्रं प्रपूजयेत्
पश्चिमं द्वारमाश्रित्य रथस्थं सूर्यमर्चयेत्
पूर्वद्वारे तु गौर्दे या तथाश्वश्चैव दक्षिणे
कुर्यादेव तु यो यात्रां नरदीपस्य मानवः
गोसूर्यशिवशक्राणां स्वर्लोकं लभते शुभम्