तस्य पुत्रो महावीर्यो नाम्ना कनकदानवः 5.1.36.
क्रोधादिंद्रेण संग्रामे युध्य मानो निपातितः
जगाम शंकरान्वेषी कैलासं शंकरालयम्
भीतो विज्ञापयामास स चाश्र्वाकुललोचनः
शक्रस्येत्थं वचः श्रुत्वा शरणा गतवत्सलः
कृत्वा रूपं महादेवो विश्वरूपं सुभैरवम्
पातालोदररूपैश्च भैरवारावनादिभिः
सिंहचर्मपरीधानं व्याघ्रत्वगुत्तरीयकम्
महामहीध्रतुल्याभ्यां जंघाभ्यां भूषितं सदा
ईदृग्रूपं विधायेशो दनुदैत्यभयावहम्
तत्रैव हि ह्रदो जातः सर्वदैवतवंदितः 5.1.36.
पापानां च पुरा कोटिः पादांगुष्ठेन दारिता
अगस्त्येन तथा कोटिस्तीर्थानामवधारिता
दृष्ट्वा तु त्रिदशाः सर्वे स्नाता वै हितकाम्यया
अंधासुरोऽपि दनुजः पुत्रं श्रुत्वा हतं युधि
ससैन्यो निर्गतः प्राप्तो यत्र ते त्रिदशाः स्थिताः
तदैव दानवान्वीक्ष्य महाहवकृतोद्यमान्
मा भैरिति महाकालो देवानुक्त्वा त्रिलोचनः
कोपयुक्ते विरूपाक्षे ज्वालाभिः पूरितं नभः
मुक्ता जगाम देवानां ननाश शलभाकृति
शतशः शकलीचक्रे तं च बाणैरताडयत् 5.1.36.
निरुद्धः शंभुना बाणैरलिभिः पंकजं यथा
योधवरैर्हता दिव्यैः स्थाणु सान्निध्यमाश्रितैः
आत्मानं च महेशेन विद्धं च बाणकोटिभिः
चकार तामसीं मायां मायाशतविशारदः
शंभुर्भीतिभरं बिभ्रद्बभ्राम भुवि भिन्नहृत्
वदन्न दृश्यते क्वासौ गतो दुष्टः पुनःपुनः
तत्र तीर्थमथोत्पन्नं वागंधकमभिश्रुतम्
नवम्यां मार्गशीर्षस्य शुक्लायां श्रद्धयान्वितः
पितृनुद्दिश्य यत्किंचिद्दीयते भक्तितः शिवे