अभयेश्वरदेवस्य भक्त्या नियतमानसः
लोके तु जायते दाता सार्वभौमो महीपतिः
दृष्ट्वागस्त्येश्वरं देवं सोपवासो जितेंद्रियः
कृत्वागस्त्यं च सौवर्णं रौप्यं वाथ स्वशक्तितः
तत्कालीनैः फलैः पुष्पैः पूजनीयो विधानतः
सप्तधान्यानि मुख्यानि तावन्त्येव फलानि च 5.1.35.
यावद्वै सप्त वर्षाणि व्रतमेवं समाचरेत्
मित्रावरुणयोः पुत्र कुम्भयोने नमोऽस्तु ते
दत्तेऽर्घे यत्फलं व्यास तद्वै ह्येकमनाः शृणु
मृतः स्वर्गमवाप्नोति संपन्ने जायतेकुले
यश्चैतच्छृणुयान्नित्यं पठेद्वा सुसमाहितः
कोटीश्वरं किमर्थं तु पावकं तत्किमुच्यते
नरदीपं किमर्थं तु द्वितीया वटमातरः
शूलेश्वरं किमर्थं तु किमोंकारस्तु कथ्यते
पुरी चोज्जयिनी दिव्या सप्तकल्पा कथं स्मृता
नामतः कर्मतः श्रेष्ठा सप्तकल्पानुवासिनी
प्राक्कल्पे स्वर्णशृंगाख्या द्वितीये तु कुशस्थली
विख्याता पञ्चमे कल्पे पुरी चूडामणीति च
पुनरंते तु कल्पस्य स्वर्णशृङ्गादि का स्मृता
सप्तजन्मकृतात्पापान्मुच्यते नात्र संशयः
तस्य पुत्रो महावीर्यो नाम्ना कनकदानवः 5.1.36.
क्रोधादिंद्रेण संग्रामे युध्य मानो निपातितः
जगाम शंकरान्वेषी कैलासं शंकरालयम्
भीतो विज्ञापयामास स चाश्र्वाकुललोचनः
शक्रस्येत्थं वचः श्रुत्वा शरणा गतवत्सलः
कृत्वा रूपं महादेवो विश्वरूपं सुभैरवम्
पातालोदररूपैश्च भैरवारावनादिभिः
सिंहचर्मपरीधानं व्याघ्रत्वगुत्तरीयकम्
महामहीध्रतुल्याभ्यां जंघाभ्यां भूषितं सदा
ईदृग्रूपं विधायेशो दनुदैत्यभयावहम्