पितॄनुद्दिश्य यत्किञ्चित्कोटितीर्थे प्रदीयते
तत्र तीर्थे नरो यस्तु गां ददाति पयस्विनीम्
यावन्त्यंगेषु रोमाणि तत्प्रसूतिकुलेषु च
पौर्णमास्याममावास्यां पश्येच्छक्तिधरं तु यः
जलप्रवेशं यः कुर्यात्तत्र तीर्थे नरोत्तमः
वृषोत्सर्गं तु यः कुर्यात्पितृभक्तो नरो मुने
कपिलाशतदानस्य फलमप्यधिकं भवेत्
वाप्यां पितामह स्यापि यः स्नायाद्विजितेंद्रियः
तैलाभिधानमातॄणां रात्रौ यच्छति यो बलिम्
विष्णुवाप्यां नरः स्नात्वा चैत्रे वा फाल्गुनेऽथवा मुच्यते सर्व पापेभ्यो विष्णुलोकं स गच्छति
अभयेश्वरदेवस्य भक्त्या नियतमानसः
लोके तु जायते दाता सार्वभौमो महीपतिः
दृष्ट्वागस्त्येश्वरं देवं सोपवासो जितेंद्रियः
कृत्वागस्त्यं च सौवर्णं रौप्यं वाथ स्वशक्तितः
तत्कालीनैः फलैः पुष्पैः पूजनीयो विधानतः
सप्तधान्यानि मुख्यानि तावन्त्येव फलानि च 5.1.35.
यावद्वै सप्त वर्षाणि व्रतमेवं समाचरेत्
मित्रावरुणयोः पुत्र कुम्भयोने नमोऽस्तु ते
दत्तेऽर्घे यत्फलं व्यास तद्वै ह्येकमनाः शृणु
मृतः स्वर्गमवाप्नोति संपन्ने जायतेकुले
यश्चैतच्छृणुयान्नित्यं पठेद्वा सुसमाहितः
कोटीश्वरं किमर्थं तु पावकं तत्किमुच्यते
नरदीपं किमर्थं तु द्वितीया वटमातरः
शूलेश्वरं किमर्थं तु किमोंकारस्तु कथ्यते
पुरी चोज्जयिनी दिव्या सप्तकल्पा कथं स्मृता
नामतः कर्मतः श्रेष्ठा सप्तकल्पानुवासिनी
प्राक्कल्पे स्वर्णशृंगाख्या द्वितीये तु कुशस्थली
विख्याता पञ्चमे कल्पे पुरी चूडामणीति च
पुनरंते तु कल्पस्य स्वर्णशृङ्गादि का स्मृता
सप्तजन्मकृतात्पापान्मुच्यते नात्र संशयः