मत्वाग्निमिति ताः सर्वास्तपंति स्म यथेच्छया
षडाननं समारूढं श्रोणिद्वारेण सत्वरम्
चिंतां जग्मुस्तदा सर्वा मुनित्रासात्ततो भयात्
षड्भिरेकत्वमापद्य श्वेतपर्वतमस्तके
शुक्लायां प्रतिपद्यासीद्द्वितीयायां समीकृतः
चतुर्थ्यां परिपूर्णांगः षण्मुखो द्वादशेक्षणः
तेजसा श्वेतताम्रेण तताप स जगत्त्रयम्
समागत्यास्य संस्कारं ब्रह्मा चक्रे यथाविधि 5.1.34.
ततो गौर्या मयूरश्च वाहने परिकल्पितः
शूलेन कृत्तिकाभिश्च वर्धितः पुत्रकाम्यया
शक्तिहस्तोऽभिषिक्तस्तु देवसेनासमादृतः
गांगेयः कार्तिकेयश्च गुहः स्कंद उमासुतः
कुमारः शक्तिधारी च तस्य नामानि षोडश
एवं जातो महासेनो दानवानां क्षयकरः
अभिषिक्तः स तेनासौ भद्रितः स जटाः पुरा
कृताभिषेकं लब्धास्त्रं महासेनं महेश्वरः
रक्षा कार्या त्वया पुत्र सामरस्य शतक्रतोः
इत्थं महोत्सवे जाते दृप्तप्रमथसागरे 5.1.34.
तासामाहारसंज्ञाभिश्चक्रे नामानि शंकरः
वटभोजनकामा या ज्ञेयास्ता वटमातरः
क्रीडार्थं शंभुना चाथ प्राप्ता याः पौलभोजने
सर्वासां दर्शनं पुण्यं ग्रहभूतविनाशनम्
लब्ध्वा शक्तिं महासेनो देवसेनो महाव्रतः
दत्त्वा राज्यं तथेंद्राय स्फीतं निहतकंटकम्
एवं निहत्य दैत्येंद्रं स गांगेयो महाब लः
ततो भोगवती व्यास शक्तिभेदेन निर्गता
पृथिव्यां यानि तीर्थानि समुद्रादिगतानि च
अतोऽतिपुण्यं त्रैलोक्ये कोटितीर्थमुदाहृतम् 5.1.34.
कोटितीर्थे नरः स्नात्वा दृष्ट्वा कोटीश्वरं शिवम्
श्राद्धं करोति यस्तत्र पितृभक्तो नरो मुने