तां दृष्ट्वा तपसोपेतां ब्रह्मचारिवया हरः
कृशमध्ये कृशापांगि किमर्थं नवयौवने
उवाच चोत्तरं सा वै सत्यं च मधुरं तथा
विचार्य च हरः श्रुत्वाऽनंदयत्कार्यमात्मनः
तस्य तद्वचनं श्रुत्वा न सेहे सा गिरेः सुता स्वं वपुर्दर्शयामास त्रिनेत्रं शूलपाणिनम्
लज्जिताभूद्भवानीशं दृष्ट्वा तस्थावधोमुखी पार्वतीहरणार्थाय यत्नं च प्रकरोम्यहम्
इत्युक्त्वांतर्दधे देवो देव्यागाच्च पितुर्गृहम्
प्रणेमुस्तेप्यथागम्य संस्मृताः परमेश्वरम् 5.1.34.
ततोऽब्रवीन्मुनीनीशः समस्तांश्च गिरेर्गृहम्
तथेति ते प्रतिज्ञाय संकेतं शंभुना समम्
दत्तार्घा भूधरेंद्रेण कृतासन परिग्रहाः
दत्तेत्युक्ता गिरींद्रेण निरूप्योद्वाहवासरम्
ऊचुस्ते शंकरं सर्वे दत्ता हिमवता शिवा
चक्रुर्विवाह सामग्रीं ब्रह्मेन्द्रादिसुरास्तदा
शंखदुंदुभिनादैश्च ब्रह्माद्यैरमरैः सह
विवाह्येमां विधानेन जगाम स्वालयं पुनः
तावत्त्रस्तैः सुरैरग्निः प्रेषितोऽगान्महेश्वरम्
निचिक्षेप मुखे वह्नेः स्वरेतो व्रीडितो भृशम् 5.1.34.
हररेतोऽग्निनोद्गीर्णं गंगामध्ये पपात ह
सप्तर्षीणां च षट्पत्न्यः स्नानार्थं जाह्नवीं ययुः
मत्वाग्निमिति ताः सर्वास्तपंति स्म यथेच्छया
षडाननं समारूढं श्रोणिद्वारेण सत्वरम्
चिंतां जग्मुस्तदा सर्वा मुनित्रासात्ततो भयात्
षड्भिरेकत्वमापद्य श्वेतपर्वतमस्तके
शुक्लायां प्रतिपद्यासीद्द्वितीयायां समीकृतः
चतुर्थ्यां परिपूर्णांगः षण्मुखो द्वादशेक्षणः
तेजसा श्वेतताम्रेण तताप स जगत्त्रयम्
समागत्यास्य संस्कारं ब्रह्मा चक्रे यथाविधि 5.1.34.
ततो गौर्या मयूरश्च वाहने परिकल्पितः
शूलेन कृत्तिकाभिश्च वर्धितः पुत्रकाम्यया