स ध्यायति किमर्थं तन्न विद्मः परमार्थिनः
मध्ये वयसि वर्तंती यासीद्दाक्षायणी सती
निमंत्रितो न मे भर्ता इति कोपं चकार या
भवभार्या भवित्रीति नान्यं वरमचिंतयत्
कथं हि शंकरो देवो मम भर्ता भविष्यति
ततः समागता देवाः कृत्वाग्रे बलसूदनम्
ते सुरास्तत्स्तुति कृत्वा वाक्यमेतत्समैरयन्
ततोऽवोचत्सुरान्ब्रह्मा ज्ञातं कार्यं समाहितम्
तथा यतध्वं देवेशं यथा वांछति पार्वतीम् 5.1.34.
ततो मेरुं समागत्य पुनर्मंत्रं प्रचक्रिरे
प्रतिपन्नं च देवेन स्वांगात्सेना पतिं प्रति
इति संचित्य देवेशः काममाहूय सत्वरम्
यथा देवो भजेद्देवीं तथा काम विधीयताम्
कामो वाक्यं हरेः श्रुत्वा प्रहस्येदमुवाच ह
तस्मिन्क्षणेऽथ शक्रेण कामवाक्यादनंतरम्
लब्ध्वा कामो मधुं मित्रं प्रतस्थे भार्यया सह
यत्र देवाधिदेवेशो देवदारुवने स्थितः
चूतवृक्षाश्रितः कामो यावद्बाणं सुमोहनम्
त्यक्तध्यानव्रतो देवो हृष्टश्चाह्रादचेतनः 5.1.34.
चूतवृक्षाश्रितं काममपश्यच्च रुषान्वितः
देवोऽप्यन्तर्दधे तस्मात्स्थानादाशु गणैः सह
भस्मीकृतं पतिं दृष्ट्वा विललाप सुदुःखिता
आश्वासयंतीं कृपया सखीमिव सुदुः खिताम्
सर्वकार्याण्यनंगोपि मित्रकार्यं विधानतः
ततः शंभोरनुध्यानात्थास्यति न संशयः
तत्पुत्रो भविता देही प्रद्युम्नोनाम ते पतिः
अचिंतयत्तदा देवी उमापि हिमवद्गृहे
कथं भर्त्ता भवेद्देवः कामस्योत्थापनं कथम् 5.1.34.
एवं संचिंतयित्वाथ सखीभिः सहिता ततः
वर्षास्वभ्रावकाशस्था हेमंते जलशायिनी