तारकं च तथा दैत्यं हत्वा यत्र सुरद्विषम्
कथं स्कंदः समुत्पन्न एतदिच्छामि वेदितुम्
सनत्कुमार उवाच पुरा देवासुरे युद्धे निर्जिता दानवैः सुराः
तत्र तु देव राजेन तपसोग्रेण वै मुने
ततस्तुष्टो महादेवः शक्रस्याभिमुखः स्थितः
महासेनापतिं देव प्रयच्छ परमेश्वर
सेनान्यां च महासेनं सुराणां भयहारकम्
इत्युक्त्वांतर्दधे देवः सर्वभूतपतिर्हरः
देवदारुवने तस्थौ ज्ञानध्यानपरोऽभवत् 5.1.34.
ध्यायंति नियतात्मनः प्राणायामपरा मुने
स ध्यायति किमर्थं तन्न विद्मः परमार्थिनः
मध्ये वयसि वर्तंती यासीद्दाक्षायणी सती
निमंत्रितो न मे भर्ता इति कोपं चकार या
भवभार्या भवित्रीति नान्यं वरमचिंतयत्
कथं हि शंकरो देवो मम भर्ता भविष्यति
ततः समागता देवाः कृत्वाग्रे बलसूदनम्
ते सुरास्तत्स्तुति कृत्वा वाक्यमेतत्समैरयन्
ततोऽवोचत्सुरान्ब्रह्मा ज्ञातं कार्यं समाहितम्
तथा यतध्वं देवेशं यथा वांछति पार्वतीम् 5.1.34.
ततो मेरुं समागत्य पुनर्मंत्रं प्रचक्रिरे
प्रतिपन्नं च देवेन स्वांगात्सेना पतिं प्रति
इति संचित्य देवेशः काममाहूय सत्वरम्
यथा देवो भजेद्देवीं तथा काम विधीयताम्
कामो वाक्यं हरेः श्रुत्वा प्रहस्येदमुवाच ह
तस्मिन्क्षणेऽथ शक्रेण कामवाक्यादनंतरम्
लब्ध्वा कामो मधुं मित्रं प्रतस्थे भार्यया सह
यत्र देवाधिदेवेशो देवदारुवने स्थितः
चूतवृक्षाश्रितः कामो यावद्बाणं सुमोहनम्
त्यक्तध्यानव्रतो देवो हृष्टश्चाह्रादचेतनः 5.1.34.
चूतवृक्षाश्रितं काममपश्यच्च रुषान्वितः