प्राग्दिग्वधूतिलकभासुरकर्णपूर मंदाकिनीदयितनाथ जगत्प्रदीप
ब्रह्मैव सत्य शुभमंगल लोकनाथ व्योमांगणेश मुनिसंस्तुत विश्वमूर्ते
कृत्वांजलिं शिरसि पंकजकुड्मलाभं यत्संस्तुतस्त्वमिह देव मयाद्य भक्त्या
नमः सवित्रे जगदेकचक्षुषे जगत्प्रसूतिस्थितिनाशहे तवे
वरं दास्यामि यत्नेन यत्ते मनसि वर्तते
मद्दर्शनं हि विफलं न कदाचित्प्रजायते
अर्जुन उवाच एष एव वरो मह्यं वराणामुत्तमोत्तमः
ये च त्वां मानवा भक्त्या स्तो ष्यंति प्रणताः सदा 5.1.32.
मनसश्चेप्सितं सर्व दातव्यं हि वरो मम आदित्यो ऽस्मै वरं दत्त्वा ह्युवाच वचनं शुभम्
यस्त्वत्कृतेन स्तोत्रेण मां स्तोष्यति नरोत्तमः
सनत्कुमार उवाच नारायणोऽपि संस्थाप्य शंखं दध्मौ प्रयत्नतः
दिवाकरं दिवानाथं तपनं तपतां वरम्
वरेण्यं वरदं विष्णुमनघं वासवानुजम्
मयूखमालिनं विश्वं मार्तंडं चंडरोचिषम्
देवदेवमहिर्बुध्न्यं धाम्नां निधिमनुत्तमम्
जगत्प्रबोधजनकं जगद्बीजं जगत्प्रभुम्
इनं प्रभाविणं पुण्यं पतंगं पवगेश्वरम्
गृहं गृहकरं हंसं हरिदश्वं हुताशनम्
भवसंभावित भावं भूतभव्यभवात्मकम्
त्रैलोक्यतिलकं तीर्थं तरणिं सर्वतोमुखम् 5.1.33.
कल्पं कल्पानलं कालं कालचक्रं क्रतुप्रियम्
त्वष्टारं विष्टरं विश्वं सदसत्कर्मसाक्षिकम्
ब्रह्माणं वासरारंभे रक्तवर्णं महाद्युतिम्
नाम्नामष्टशतं दिव्यं विष्णुना समुदाहृतम्
न तस्य विपदः क्वापि सर्वत्रापि शुभा गतिः
तेजः प्रज्ञां परं लाभं ज्ञानं च लभते गतिम्
केशवार्कमुखं दृष्ट्वा पद्मरागसमप्रभम्
केशवार्कसमीपे तु रेणुतीर्थं प्रचक्षते
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽ वन्तीक्षेत्रमाहात्म्ये केशवादित्यमाहात्म्यवर्णनंनाम त्रयस्त्रिंशोऽध्यायः
स्कंदस्य च जटाभद्रं चक्रे यत्र पुरा शिवः