तत्त्वध्यानं जलनिधिनिवहे स्थित्वा स्थित्वा चरणनिवहैः
उदयाद्रिनितंबसंस्थितस्य ह्युदयेष्वस्तमयेषु चावृतस्य
यथायथा व्रजति रथस्तवांबरे विपाटयन्धनतिमिरौघसंचयान्
चारुपद्मविनिमीलितेक्षणां चक्रवाककलहंसमेखलाम्
नीललोलमतिकान्तमुत्पलं भृंगतुंगचरणाकुलीकृतम्
स्फुरच्छशांकहारनिर्मलं खग त्वदंकेष्वचंचलम्
हरिति च तावन्मुहिर्निषेविततमस्यशुभं भवति च यावदैव किरणैस्तव पूजिततरम्
त्वं विष्णुस्त्वं शशांकस्त्वमसुरमथनः शण्मुखस्त्वं धनेशस्त्वं कालस्त्वं च धाता क्षितिधरमलयापाश्रयस्त्वं हुताशः 5.1.32.
त्वमनिंद्य गोपते त्रिपुरमथन मन्मथदाहकरस्त्वमसुरभीमदर्पहा पाहि माम्
आदित्य भास्कर दिवाकर सप्तसप्ते मार्तंड सूर्य हरिदश्वपते च भानो
प्राग्दिग्वधूतिलकभासुरकर्णपूर मंदाकिनीदयितनाथ जगत्प्रदीप
ब्रह्मैव सत्य शुभमंगल लोकनाथ व्योमांगणेश मुनिसंस्तुत विश्वमूर्ते
कृत्वांजलिं शिरसि पंकजकुड्मलाभं यत्संस्तुतस्त्वमिह देव मयाद्य भक्त्या
नमः सवित्रे जगदेकचक्षुषे जगत्प्रसूतिस्थितिनाशहे तवे
वरं दास्यामि यत्नेन यत्ते मनसि वर्तते
मद्दर्शनं हि विफलं न कदाचित्प्रजायते
अर्जुन उवाच एष एव वरो मह्यं वराणामुत्तमोत्तमः
ये च त्वां मानवा भक्त्या स्तो ष्यंति प्रणताः सदा 5.1.32.
मनसश्चेप्सितं सर्व दातव्यं हि वरो मम आदित्यो ऽस्मै वरं दत्त्वा ह्युवाच वचनं शुभम्
यस्त्वत्कृतेन स्तोत्रेण मां स्तोष्यति नरोत्तमः
सनत्कुमार उवाच नारायणोऽपि संस्थाप्य शंखं दध्मौ प्रयत्नतः
दिवाकरं दिवानाथं तपनं तपतां वरम्
वरेण्यं वरदं विष्णुमनघं वासवानुजम्
मयूखमालिनं विश्वं मार्तंडं चंडरोचिषम्
देवदेवमहिर्बुध्न्यं धाम्नां निधिमनुत्तमम्
जगत्प्रबोधजनकं जगद्बीजं जगत्प्रभुम्
इनं प्रभाविणं पुण्यं पतंगं पवगेश्वरम्
गृहं गृहकरं हंसं हरिदश्वं हुताशनम्
भवसंभावित भावं भूतभव्यभवात्मकम्
त्रैलोक्यतिलकं तीर्थं तरणिं सर्वतोमुखम् 5.1.33.