गत्वार्जुन दिशं प्राचीं मूर्तिमेकां निवेशय
अहमप्युत्तरां यामि स्थापनार्थं नदीं मुने
पूर्वां गत्वा ततः पार्थ शुभं स्थानं व्यलोकयत्
अर्कं देवं स्थापयामि यावद्दध्यौ च पांडवः
कथयामास पार्थाय तेजसा तेन दुःसहम्
तेजस्त्वसहमानो वै देवं वचनमब्रवीत्
सौम्य रूपः सुदर्शश्च प्रजाभ्यो भव गोपते
भुविस्था मानवाः पूता भवंतु तव दर्शनात् 5.1.32.
दक्षिणेन करेणाथ ह्यभयेनाभयप्रदः
प्रभाकरेण देवेन निजं तेजः प्रदर्शितम
प्राप्ते लग्ने च हरिणा शंखश्चापूरितो महान्
भवति विगतपापं कीर्तनादेव यस्य प्रचुरकलुषदोषैर्ग्रस्तमंगं नराणाम्
ब्रह्माद्यैर्मुनिभिरभिष्टुतं पतंगं कः स्तोतुं कविरभिवांछते प्रकामम्
शास्त्रार्थकामनिपुणैर्मुनिभिः स्तुतस्य किं वस्तु यन्न रचितं विविधैः प्रयोगैः
कामं तथाप्यहमतीव विचार्य ब्रुद्ध्या भानोस्त्रिलोकगुरुपूजितपादयुग्मम्
तावज्जगद्भवति निश्चलमेव सर्वं तावत्क्रियाश्च विविधा न च यांति सिद्धिम्
तावन्न भांति शिखराणि महीरुहाणां गुच्छैस्तु फुल्लवनमीलितलोचनानि
उद्यंतमंबरतले सुरसिद्धसंघाः सब्रह्मदैत्यमुनिकिन्नरनागयक्षाः 5.1.32.
अस्तं गते त्वयि जगद्भवति प्रसुप्तं भूयस्त्वयि प्रतपति प्रतिबोधमेति
उत्साहशक्तिनयशौर्यसमन्वितानां सेवाप्रयोगरचनाविधितत्पराणाम् ६२
यत्संयुगेषु रथकुञ्जरकुन्तशक्तिनाराचचक्रशरतोमरभीमखड्गैः
कांतारदुर्गविषमेष्वपि वर्तमाना ऋक्षेभसिंहबहुकण्टकतस्करेषु
तेजोराशिस्त्वमिह शरणं सर्वतोदुःखितानां त्वत्तुल्योऽन्यो जगति सकले नास्ति कश्चिद्दयालुः
कः कुष्ठाभिहतः क्व चारिभिरथो को व्याधिभिः पीडितः के पंग्वंधजडाः क्व शीर्णचरणः को वा विपन्नक्रियः
धर्मः परत्र किल तिष्ठति सेवितोऽसौ कालांतरेण विबुधा वरदा भवंति
विभ्रांतकांतहरिणीसदृशेक्षणाभिः कांतोरुहारमणिकुण्डलमेखलाभिः
यैस्त्वं नरैः सकृदपि प्रणतः कथंचिद्ध्यातोऽथवा भुवननाथ तथांतकाले
ये त्वां कुतर्कमतिभिर्न नमंति भक्त्या रोमांचकंचुकशताकुलितैः शरीरैः 5.1.32.
उदधिजलतरंगक्षोभलोलाक्षियुग्मैः सफणिमणिमयूखोद्भासितैर्लेलिहद्भिः
तव सुरवर गच्छतोऽनुसरंति त्रिदशनदीकमलोद्ग तानि वातैः